सामग्री पर जाएँ

भोगदेहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भोगदेहः, पुं, (भोगहेतुको भोगसाधको वा देहः ।) स्वर्गनरकभोगार्थं सूक्ष्मशरीरम् । यथा, -- “कृते सपिण्डीकरणे नरः संवत्सरात् परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥” इति श्राद्धतत्त्वम् ॥ अपि च । “शृणु देहविवरणं कथयामि यथागमम् । पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् । देहिनां देहबीजञ्च स्रष्टुः सृष्टिविधौ परम् ॥ पृथिव्यादिपञ्चभूतैर्यो देहो निर्म्मितो भवेत् । स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ॥ वृद्धाङ्गुष्टप्रमाणश्च यो जीवपुरुषः कृतः । बिभर्त्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे ॥ स देहो न भवेद्भस्म ज्वलदग्नौ यमालये । जले न नष्टो देही वा प्रहारे सुचिरे कृते ॥ न शस्त्रे च न चास्त्रे च न तीक्ष्णकण्टके तथा । तप्तद्रवे तप्तलोहे तप्तपाषाण एव च ॥ प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्द्ध्वपतनेऽपि च । न च दग्धो न भग्नश्च भुङ्क्ते सन्तापमेव च । कथितं देहवृत्तान्तकारणञ्च यथागमम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २९ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=भोगदेहः&oldid=155041" इत्यस्माद् प्रतिप्राप्तम्