भोजः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भोजः, पुं, (भोजस्येदमिति । भोज + “तस्ये- दम् ।” ४ । ३ । १२० । इत्यण् । अणो लोपः ।) स्वनामख्यातदेशः । भोजपुर इति भाषा । तत्पर्य्यायः । भोजकटः २ । इति शब्द- रत्नावली ॥ धारानगरस्य राजविशेषः । तस्य वृत्तान्तो यथा । धारानामनगर्य्यां सिन्धुल- संज्ञो राजा आसीत् । तस्य राज्ञी सावित्री, तयोर्वृद्धावस्थायां भोजनामपुत्त्रो जातः । स यदा पञ्चवर्षवयस्कस्तदा तत्पिता आत्ममरणकालं विदित्वा भ्रात्रे मुञ्जाय राज्यं ददौ, तदुत्सङ्गे भोजञ्च मुमोच । ततो राज्ञि परलोकं प्राप्ते कियत्कालानन्तरं सभायां कश्चिदुदरम्भरिर्ज्योतिर्विदागत्य मुञ्जं प्राह राजन् ! भोजस्य भाग्योदयं वक्तुं विरिञ्चिरपि न समर्थः कोऽहं वराक उदरम्भरिर्ब्राह्मणः तथापि वदामि भोजमितः प्रेषय । ततो राजाज्ञया भोजेऽध्ययनशालां प्राप्ते आह यथा, -- “पञ्चाशत्पञ्चवर्षाणि सप्तमासा दिन त्रयम् । भोगराजेन भोक्तव्यं सगौडं दक्षिणापथम् ॥” इति श्रुत्वा मुञ्जराजोऽचिन्तयत्, यदि राज- लक्ष्मीर्भोजं गमिष्यति ततोऽहं जीवन्नपि मृतः । ततो राजा मन्त्रयित्वा वङ्गालाधीश्वरं महा- बलं वत्सराजमाहूय निर्जने तं प्राह, वत्स- राज ! त्वया भोजस्त्रिभुवनेश्वरीविपिने हन्तव्यः । वत्सराजः भोजकुमारोपाध्यायमाहूय प्राह, विप्र ! भोजमानय । ततो विदितवृत्तान्तो भोजः कुपितः प्राह, आः पाप ! राज्ञः कुमारं वहि- रानेतुं तव का शक्तिः, ततो वामचरणपादु- कामादाय भोजेन भालदेशे हतो वत्सराजः प्राह, भोजकुमार ! वयं राजादेशकारिणः । इत्युक्त्वा वधार्थं बलात् वत्सराजेन निशायां विपिनं भोजे नीते वत्सराजस्य भ्रात्रा भोजस्य वधोद्यमसमये । “एक एव सुहृद्धर्म्मो निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्व्वमन्यच्च गच्छति ॥” इत्युक्तं निशम्य वत्सराजो वैराग्यमापन्नो भोजं क्षमस्वेत्युक्त्वा प्रणम्य तं रथे निवेश्य गृहमागत्य भूमिगृहान्तरे भोजं रक्षित्वा कृत्रिमं भोज- मस्तकं कारयित्वा राजानमागत्य नत्वा प्राह श्रीमता यदादिष्टं तन्मया कृतम् । राजपुत्त्रबधं ज्ञात्वा राजा तं प्राह वत्सराज ! पुत्त्रेण खड्गप्रहारावसरे किमपि उक्तम् । वत्सराजः प्राह देव ! किमपि पत्रं प्रेषितमस्ति तदिदं गृहाण शिरश्च दर्शयति । ततो भोजमस्तकं दृष्ट्वा राजा रुरोद । बहुलक्षमुद्रादानादिवर्णनञ्च ग्रन्थशेषपर्य्यन्त- मस्ति । तद्ग्रन्थविस्तरभयात् न लिखितम् । इति भोजप्रबन्धपुस्तकात् सङ्कलितम् ॥ * ॥ ऐन्द्र- जालिकविद्यां भोजविद्यां वदन्ति ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भोजः [bhōjḥ], [भुज्-अच्] N. of a celebrated king of Mālvā (or Dhārā); (supposed to have flourished about the end of the tenth or the beginning of the eleventh century, and to have been a great patron of Sanskṛit learning; he is also supposed to have been the author of several learned works, such as सरस्वतीकण्ठाभरण &c.).
N. of a country.
N. of a king of the Vidarbhas; भोजेन दूतो रघवे विसृष्टः R.5.39;7.18,29,35. -जाः (m. pl.) N. of a people. -Comp. -अधिपः an epithet of
Kamsa.
Karṇa. -इन्द्रः a king of the Bhojas.-कटम् N. of a town founded by Rukmin. -कुलम् the dynasty of the Bhojas who ruled over the country of Vidarbha or Berar; अभोजयद् भोजकुलाङ्कुरः क्वचित् N.16.48.-देवः, -राजः king Bhoja; धन्यः श्रीभोजराजस्त्रिभुवनविजयी Udb; see (1) above.
पतिः king Bhoja.
an epithet of Kamsa.
