भोज्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भोज्यम्, त्रि, (भुज्यते इति । भुज् + कर्म्मणि + ण्यत् । “भोज्यं भक्ष्ये ।” ७ । ३ । ६९ । इति निपातनात् न कुत्वम्) भोजनीयद्रव्यम् । यथा, “भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराः स्त्रियः । विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥” इति चाणक्ये ५१ श्लोकः ॥ अपि च । “आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव च । भोज्यं भक्ष्यं तथा चर्व्व्यं गुरु विद्याद्यथोत्तरम् ॥” चूष्यं इक्षुदण्डादि । पेयं पानकशर्करीदकादि । लेह्यं रसालाक्वथितादि । भोज्यं भक्तसूपादि । भक्ष्यं लड्डुकमण्डकादि । चर्व्व्यं चिपिटचण- कादि । इति भावप्रकाशः ॥ (पितॄणां तृप्त्यर्थं देये अन्नादौ च ॥) भोज्यदानस्येतिकर्त्तव्यता यथा । ओ~ अद्यामुके मासि अमुके पक्षे अमुकतिथौ अमुकगोत्रस्य पितुरमुकदेवशर्म्मण एकोद्दिष्टविधिकसाम्बत्- सरिकश्राद्धवासरे अमुकगोत्रस्य पितुरमुक- देवशर्म्मणोऽक्षयस्वर्गकाम इदं सघृतसवस्त्रोप- करणामान्नभोज्यमर्च्चितं श्रीविष्णुदैवतं यथा- सम्भवगोत्रनाम्ने ब्राह्मणायाहं ददानि । ततो दक्षिणा । ओ~ अद्येत्यादि कृतैतत्सघृत- सवस्त्रोपकरणामान्नभोज्यदानकर्म्मणः साङ्गतार्थं दक्षिणामिदं काञ्चनमूल्यं श्रीविष्णुदैवतं यथा- सम्भवगोत्रनाम्ने ब्राह्मणायाहं ददानि । कृतै- तत्सघृतसवस्त्रोपकरणामान्नभोज्यदानकर्म्मा- च्छिद्रमस्तु । इति श्राद्धप्रयोगतत्त्वम् ॥
