सामग्री पर जाएँ

भौत्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भौत्यः, पुं, (भूतेरपत्यं पुमान् । भूतिः + अप- त्यार्थे ष्यञ् ।) भूतिमुनिपुत्त्रश्चतुर्द्दशो मनुः । यथा, -- मार्कण्डेय उवाच । “अतः परन्तु भौत्यस्य त्वमुत्पत्तिं निशामय । देवानृषींस्तथा पुत्त्रांस्तथैव वसुधाधिपान् ॥ बभूवाङ्गिरसः पुत्त्रो भूतिर्नाम्नातिकोपनः । तस्य भ्राता सुवर्च्चाभूद् यज्ञे तेन निमन्त्रितः ॥ यियासुः शान्तिनामानं शिष्यमाह महामुनिः । सदोद्युक्तं सदाचारमुदारं मुनिसत्तमम् ॥ भूतिरुवाच । अहं यज्ञं गमिष्यामि भ्रातुः शान्ते ! सुवर्च्चसः । तेनाहूतस्त्वया चेह यत् कर्त्तव्यं शृणुष्व तत् ॥ अतिजागरणं वह्नेस्त्वया कार्य्यं ममाश्रमे । तथा तथाप्रमत्तेन यथाग्निर्न शमं व्रजेत् । इत्याज्ञप्ते तथेत्युक्तः स तु शिष्येण शान्तिना । जगाम यज्ञं तं भ्रातुराहूतः सन् यवीयसा ॥ प्रशान्तस्तावदनलो योऽसौ भूतिपरिग्रहः । तं दृष्ट्वा सोऽनलं शान्तं शान्तिरत्यन्तदुःखितः । भीतश्च भूतेर्बहुधा चिन्तयन् स महाद्युतिः ॥

"https://sa.wiktionary.org/w/index.php?title=भौत्यः&oldid=155106" इत्यस्माद् प्रतिप्राप्तम्