भौमः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भौमः, पुं, (भूमेरपत्यं । भूमि + शिवादित्वादण् ।) मङ्गलग्रहः । (यथा, वृहत्संहितायाम् । ५ । ६० । “पश्यन् ग्रस्तं सौम्यो घृतमधुतैलक्षयाय राज्ञां च । भौमः समरविमर्द्दं शिखिकोपं तस्करभयञ्च ॥”) नरकराजः । (यथा, हरिवंशे । १२० । १४ । “तासां पुरवरं भौमोऽकारयन्मणि- पर्व्वतम् ॥”) तस्येदमित्यण् । भूमिभवे, त्रि । इति मेदिनी । मे, २२ ॥ (यथा, महाभारते । १ । १३६ । २० । “भौमेन प्राविशद्भूमिं पार्व्वतेनाभवद्गिरिः । अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥”) अम्बरः । इति धरणिः ॥ रक्तपुनर्नवा । इति राजनिर्घण्टः ॥
