भौमजल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भौमजलम्, क्ली, (भूमि + अण् ।) भूमिसम्बन्धि- सलिलम् । तत् त्रिविधं यथा, -- “भौममम्भो निगदितं प्रथमं त्रिविधं बुधैः । जाङ्गलं परमानूपं ततः साधारणं क्रमात् ॥” तेषां लक्षणानि गुणाश्च । “अल्पोदकोऽल्पवृक्षश्च पित्तरक्तामयान्वितः । देशोऽनूप इति ख्यात आनूपं तद्भवं जलम् ॥ मिश्र चिह्नस्तु यो देशः स हि साधारणः स्मृतः । तम्मिन् देशे यदुदकं तत्तु साधारणं स्मृतम् ॥ जाङ्गलं सलिलं रूक्षं लवणं लघु तत्तनु । वह्निकृत् कफहृत् पथ्यं विकारान् कुरुते बहून् ॥ आनूपं वार्य्यभिष्यन्दि स्वादु स्निग्धं घनं गुरु । वह्निकृत् कफहृन्नित्यं विकारान् कुरुते बहून् ॥ साधारणन्तु मधुरं दीपनं शीतलं लघु । तर्पणं रोचनं तृष्णादाहदोषत्रयप्रणुत् ॥” अथ भौमानामेव नादेयादीनां लक्षणानि गुणाश्च । तत्र नादेयस्य लक्षणं गुणाश्च । “नद्या नदस्य वा नीरं नादेयमिति कीर्त्तितम् । नादेयमुदकं रूक्षं वातलं लघु दीपनम् । अनभिष्यन्दि विशदं कटुकं कफपित्तनुत् ॥ नद्यः शीघ्रवहा लघ्य्वः सर्व्वा याश्चामलौदकाः । गुर्व्व्यः शैवलसंछन्ना मन्दगाः कलुषाश्च याः ॥ नदीसरस्तडागस्थे कूपप्रस्रवणादिजे । उदके देशभेदेन गुणान् दोषांश्च लक्षयेत् ॥” इति भावप्रकाशः ॥
