भ्रकुटिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रकुटिः, स्त्री, (भ्रुवोः कुटिः कौटिल्यम् । “भ्रु कुं- सादीनामकारो भवतीति वक्तव्यम् ।” ६ । ३ । ६१ । इत्यस्य वार्त्तिकोक्त्या । उकारस्यात्वम् ।) क्रोधा- दिना भ्रुवः कौटिल्यम् । इत्यमरः । १ । ७ । ३७ ॥ अस्या रूपान्तराणि । भ्रुकुटिः । भ्रूकुटिः । भृकुटिः । भ्रकुटी । भ्रुकुटी । (यथा, माघे । १५ । ८ । “भ्रुकुटीकठोरितललाटमाननम् ।”) भ्रूकुटी । भृकुटी । इति भरतः ॥
