सामग्री पर जाएँ

भ्रमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भ्रमः, पुं, (भ्रमु अनवस्थाने इति । भ्रम + भावे घञ् ।) मिथ्याज्ञानम् । (यथा, राजतरङ्गि- ण्याम् । ३ । ४२३ । “देवो जगाद तं भद्र ! कोऽयं ते मनसि भ्रमः ॥”) तत्पर्य्यायः । भ्रान्तिः २ मिथ्यामतिः ३ । इत्य- मरः । १ । ५ । ४ । अम्बुनिर्गमः । कुन्दः । (यथा, रघौ । ६ । ३२ । “अवन्तिनाथोऽयमुदग्रबाहु- र्विशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रभ्रममुष्णतेजाः त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥” “चक्रभ्रमं चक्राकारशस्त्रोत्तेजनयन्त्रम् । भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दाख्ये शिल्पियन्त्रके ॥” इति तट्टीकायां मल्लिनाथः ॥) भ्रमणम् । इति मेदिनी । मे, २० ॥ (यथा, कथासरित्सागरे । २७ । ४६ । “एवं किलोक्त्वा व्यसृजत् तं भ्रमाय बणिक्- सुतम् ।”) न्यायमते भ्रमस्य नामान्तरं अप्रमा । भ्रमो- द्विविधः । विपर्य्यासः संशयश्च । आद्यो यथा । देहे आत्मबुद्धिः । शङ्खादौ पीततामतिः । सा निश्चयरूपा । द्वितीयो यथा । किंस्विन्नरो वा स्थाणुर्वा इत्यादिबुद्धिः । तस्य कारणम् । पित्तदूरत्वमोहभयादिनानाविधदोषः । यथा, “अप्रमा च प्रमा चेति ज्ञानं द्विविधमुच्यते । तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता ॥ तत्प्रपञ्चो विपर्य्यासः संशयोऽपि प्रकीर्त्तितः । आद्यो देहे यात्मबुद्धिः शङ्खादौ पीततामतिः ॥ भवेन्निश्चयरूपा सा संशयोऽथ प्रदर्श्यते । किंस्विन्नरो वा स्थाणुर्व्वेत्यादिबुद्धिस्तु संशयः ॥ तदभावप्रकारा धीस्तत्प्रकारा तु निश्चयः । स संशयो भवेद् या धीरेकत्राभावभावयोः ॥ साधारण्यादिधर्म्मस्य ज्ञानं संशयकारणम् । दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् ॥ पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः ।” इति भाषापरिच्छेदः । १२७ -- १३२ ॥ (भ्रमणशीले, त्रि ॥ यथा, ऋग्वेदे । ६ । ६ । ४ । “अधभ्रमस्त उर्व्विया विभाति यातयमानो अधिसानुपृश्नेः ॥” “भ्रमो भ्रमणशीलो ज्वालासमूहः ॥” इति तद्भाष्ये सायनः ॥ रोगविशेषः । तद्यथा, -- “मूर्च्छा पित्ततमःप्राया रजःपित्तानिलाद्भ्रमः । चक्रवद्भ्रमतो गात्रं भूमौ पतति सर्व्वदा । भ्रमरोग इति ज्ञेयो रजःपित्तानिलात्मकः ॥” इति वैद्यकमाधवकृतरुग्विनिश्चये मूर्च्छाधिकारे ॥ तथाचास्य चिकित्सा ॥ “शतावरी बलामूलद्राक्षासिद्धं पयः पिबेत् । ससितं भ्रमनाशाय बीजं वाट्यालकस्य च ॥ पिबेद्दुरालभाक्वाथं सघृतं भ्रमशान्तये । त्रिफलायाः प्रयोगो वा प्रयोगः पयसोऽपि वा ॥ इति वैद्यकचक्रपाणिसंग्रहे मूर्च्छाद्यधिकारे ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भ्रमः [bhramḥ], [भ्रम्-घञ्]

Moving or roaming about, roving.

Turning round, whirling, revolving.

Circular motion, rotation.

Straying, deviating.

An error, a mistake, misapprehension, delusion; शुक्तौ रजतमिति ज्ञानं भ्रमः; भ्रमं संमोहमावर्तमभ्यासाद्विनिवर्तयेत् Mb.12.274.7; भ्रमो द्विविधः विपर्यासः संशयश्च T. S.

Confusion, perplexity, embarrassment.

An eddy, a whirlpool.

A potter's wheel.

A grind-stone.

A lathe.

Giddiness.

A fountain, watercourse; भ्रमागतैरम्बु- भिरम्बुराशिः Śi.3.38.

An umbrella.

A circle.-Comp. -आकुल a. confused. -आसक्तः a sword-cleaner, an armourer.

"https://sa.wiktionary.org/w/index.php?title=भ्रमः&oldid=309995" इत्यस्माद् प्रतिप्राप्तम्