सामग्री पर जाएँ

भ्रमणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भ्रमणम्, क्ली, (भ्रम + भावे ल्युट् ।) गमनवि- शेषः । पर्य्यटनम् । (यथा, भाषापरिच्छेदे । ७ । “भ्रमणं रेचनं स्यन्दनोर्द्ध्वज्ज्वलनमेव च ॥” पुनःपुनर्गमनम् । यथा, देवीभागवते । १ । १४ । ४६ ॥ “संसारेऽस्मिन्महाघोरे भ्रमणं नभचक्रवत् ॥” तथाच, कामन्दकीये । १४ । २४ । “नवाग्निधूमसंरोधो दिङ्मोहो भ्रमणानि च ॥” “भ्रमणानि दिग्भ्रमात् दुर्गमप्रदेशेषु चंक्रमणानि ।” भ्रमत्यस्मिन्ननेनेति वा । भ्रम + ल्युट् ।) मण्ड- लम् । यथा, सूर्य्यसिद्धान्ते । १२ । ७६ । “कालेनाल्पेन भ्रमणं भुङ्क्तेऽल्पभ्रमणाश्रितः । ग्रहः कालेन महता मण्डले महति भ्रमन् ॥” अल्पभ्रमणं स्वल्पपरिधिमण्डलमानमित्यर्थः । उत्तरपदे मण्डले महतीति दर्शनात् ॥”) हस्त्यश्वरथदोलादिद्बारा भ्रमणगुणाः । वात- कोपनत्वम् । अङ्गस्थैर्य्यकरत्वम् । बलाग्निविवर्द्धन- त्वञ्च । इति राजवल्लभः ॥

"https://sa.wiktionary.org/w/index.php?title=भ्रमणम्&oldid=155138" इत्यस्माद् प्रतिप्राप्तम्