भ्रमरच्छली
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रमरच्छली, स्त्री, (भ्रमरान् छलयतीति । छलि + अच् । गौरादित्वात् ङीष् ।) लताविशेषः । तत्- पर्य्यायः । भृङ्गाह्वा २ भ्रमरा ३ भृङ्गमूलिका ४ । अस्या गुणाः । यथा, राजनिर्घण्टे । “भृङ्गच्छल्ली च कटुका तिक्ता दीपनरोचनी ।”
