भ्रमरमारी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रमरमारी, स्त्री, (भ्रमरान् मारयति गन्धोत्कर्षेण व्याकुलयतीति । मृ + णिच् + अण् । गौरादि- त्वात् ङीष् ।) मालवदेशप्रसिद्धपुष्पवृक्ष- विशेषः । तत्पर्य्यायः । भ्रमरारिः २ भृङ्गारिः ३ भृङ्गमारी ४ मांसपुष्पिका ५ कुष्ठारिः ६ भ्रमरी ७ षष्टिलता ८ । अस्या गुणाः । तिक्त- त्वम् । पित्तश्लेष्मज्वरनाशित्वम् । शोफकण्डूति- कुष्ठब्रणदोषत्रिदोषनाशित्वञ्च । इति राज- निर्घण्टः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रमरमारी¦ स्त्री भ्रमरं मारयति मारि अण् उप॰ स॰ गौरा॰ङीष्। भृङ्गारिलतायाम् राजनि॰। भृङ्गार्य्यादयोऽप्यत्र
“भ्रमरारिश्च तिक्ता स्यात् पित्तश्लेष्मकफापहा। त्रिदोष-कुष्ठकण्डूतिशोफव्रणविनाशिनी” राजनि॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रमरमारी/ भ्रमर--मारी f. " bee-killing " , a species of flower (growing in Malwa) L.