भ्रमिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रमिः, स्त्री, (भ्रम + बाहुलकात् इः ।) भ्रमणम् । तत्पर्य्यायः । भ्रमः २ । इत्यमरः । ३ । २ । ९ ॥ भ्रमी ३ । इति भरतः ॥ (मण्डलाकारगतिः ४ । तथाच नैषधचरिते । १ । ७३ । “अचीकरच्चारुहयेन या भ्रमी- र्निजातपत्रस्य तलस्थले नलः ।”) मण्डलाकारसैन्यरचना । यथा, -- “वीरान् सहस्रशो दृष्ट्वा भ्रमिभिः पर्य्यवस्थितान् । लवो लवेन सन्धाय शरान् रोषप्रपूरितः ॥ भ्रमिराद्या सहस्रेण द्वितीयायुतसङ्ख्यया । तृतीयायुतयुग्मेन तुरीयायुतपञ्चभिः ॥ पञ्चमी लक्षयोधानां षष्ठी योधायुताधिकैः । सप्तमी लक्षयुग्मेन सप्तभिर्भ्रमिभिर्युतान् ॥ मध्ये लवो भ्रमिव्याप्तः सञ्चरन् बह्निवत्तदा । दाहयामास सर्व्वान् वै सैनिकान् भ्रमिकार- कान् ॥” इति पाद्मे पातालखण्ड ६१ अध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रमिः [bhramiḥ], f. [भ्रम्-इ]
Whirling or turning round, circular movement; moving about or round, revolution; भ्रमिषु कृतपुटान्तर्मण्डलावृत्तिचक्षुः U.3.19;6.3; Mal.5.23.
A potter's wheel.
A turner's lathe.
A whirlpool.
A whirlwind.
A circular arrangement of troops.
An error, a mistake.
Swoon, fainting (मूर्च्छा); A. Rām.6.11.73. -a. Turning round, revolving; क्षौरपव्यं स्वयंभ्रमिम् Bhāg.
