भ्रस्ज
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रस्ज, औ ञ श पाके । इति कविकल्पद्रुमः ॥ (तुदा०-उभ०-सक०-अनिट् ।) रेफयुक्तादि- र्दन्त्योपधः । क्विपि संयोगादिलोपे भृट् । पाक इह भर्ज्जनम् । ञश भृज्जति भृज्जते मत्स्यं सूपकारः । औ अभ्राक्षीत् । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रस्ज¦ पाके तु॰ उ॰ सक॰ अनिट्। भृज्जति आर्द्धधातुकेवा भर्जादेशः स च सेट् अभ्राक्षीत् अभर्जीत्। अभ्रष्टअभर्जिष्ट। बभर्ज वभ्रज्ज।