भ्रातुद्वितीया
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रातुद्वितीया¦ स्त्री भ्रातृभीजनार्था द्वितीया। कार्त्तिकशुक्ल-पक्षस्य द्वितीयायाम् यमद्वितीयायां तद्विधिः निर्णयसि॰भविष्ये
“कार्त्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर!। यमो यमुनया पूर्वं भोजितः स्वगृहेऽर्चितः। अतो यमद्वि-तीयेयं त्रिषु लोकेषु विश्रुता। अस्यां निजगृहे विद्वन्! नभोक्तव्यं ततो नरैः। स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टि-वर्द्धनम्। दानानि च प्रदेयानि भगिनीभ्योऽपि विधानतः। स्वर्णालङ्कारवस्त्रान्नपूजासत्कारभोजनैः। सर्वा भगिन्यःसंपूज्या अभावे प्रतिपन्नकाः” प्रतिपन्नाः मातृभगिन्य इतिहेमाद्रिः।
“पितृव्यभगिनीहस्तात् प्रथमायां युधिष्ठिर!। मातुलस्य सुताहस्ताद्द्वितीयायां तथा नृप!। पितुर्मातुःस्वसः कन्ये तृतीयायां तयोः करात्। भोक्तव्यं सहजा-याश्च भगिन्या हस्ततः परम्। सर्वासु भगिनीहस्ता-द्भोक्तव्यं बलबर्द्धनम्। यस्यां तिथौ यमुनया यमराजदेवःसम्भोजितः प्रतिजगत् स्वसृसौहृदेन। तस्यां स्वसुःकरतलादिह यो भुनक्ति प्राप्नोति रत्नसुखधान्यमनुत्तमंसः। गौडास्तु
“यसं च चित्रगुप्तं च यमदूतांश्च पूजयेत्। अर्व्यञ्चात्र प्रदातव्यं यमाय सहजद्वयैः मन्त्रः
“एह्येहिमार्त्तण्डज! पाशहस्त! यमान्तकालोकधरामरेश!। भ्रातृ-द्वितीयाकृतदेवपूजां गृहाण चाऽर्घ्यं भगवन्नमस्ते! भ्रा-तस्तवानुजाताहं भुङ्क्ष्य भक्तमिदं शुभम्। प्रीतये यम-राजस्य यमुनाया विशेषतः” ज्येष्ठाऽग्रजातेति वदेदितिस्यार्त्ताः। इत्यन्नदानमित्यप्याहुः। ब्रह्माण्डपुराणेऽपि
“या तु भोजयते नारी भ्रातरं युग्मके तिथौ। अर्च्चये-च्चापि ताम्बूलैर्न सा वैधव्यमाप्नुयात्। भ्रातुरायुःक्षयोराजन् न भवेत् तत्र कर्हिचित्”।
