सामग्री पर जाएँ

भ्रान्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भ्रान्तः, त्रि, भ्रमणयुक्तः । भ्रान्तिविशिष्टः । (अतीन्द्रियमिन्द्रियं भ्रान्तानामधिष्ठाने ॥” इति सांख्यसूत्रम् । २ । २३ ॥) भ्रमधातोः कर्त्तरि क्तप्रत्ययेन निष्पन्नः ॥ भ्रमणे, क्ली । यथा, वाभटपशुपतिभ्यां व्याख्यातम् । “भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित् फलम् ।”

भ्रान्तः, पुं, (भ्रम् + कर्त्तरि क्तः । “अनुनासिक- स्येति । ६ । ४ । १५ । इति दीर्घः ।) राज- धूस्तूरः । मत्तहस्ती । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=भ्रान्तः&oldid=155198" इत्यस्माद् प्रतिप्राप्तम्