भ्रामर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रामरम्, क्ली, (भ्रमरैः कृतं सम्भृतमिति । भ्रमर + “क्षुद्राभ्रमरवटरपादपादञ् ।” ४ । ३ । ११९ । इति अञ् ।) मधु । इति मेदिनी । रे, १९१ ॥ तत्तु भ्रमरजमधु । तस्य गुणाः । पिच्छलत्वम् । रूक्षत्वम् । मधुरत्वम् । मुखजाड्यनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । पैच्छिल्यात् स्वादु भूयस्त्वात् भ्रामरं गुरु कीर्त्तितम् ।” इति राजवल्लभः । अन्यच्च । “किञ्चित् सूक्ष्मैः प्रसिद्धेभ्यः षट्पदेभ्यीऽलिभि- श्चितम् । निर्म्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम् ॥ भ्रामरं रक्तपित्तघ्नं मूत्रजाड्यकरं गुरु । स्वादुपाकमभिष्यन्दि विशेषात् पिच्छिलं हिमम् ॥” इति भावप्रकाशः ॥ नृत्यविशेषः । तत्पर्य्यायः । रासः २ मण्डल- नृत्यम् ३ हल्लीसम् ४ । इति शब्दमाला ॥ भ्रमरसम्बन्धिनि त्रि । यथा, -- “तदाहं भ्रामरं रूपं कृत्वासंख्येयषट्पदम् ।” इति देवीमाहात्म्यम् ॥ (यथा च हारीते प्रथमे स्थाने एकादशेऽध्याये । मध्वर्थे लक्षणं गुणाश्च । “शीतं कषायं मधुरं लघु स्यात् सन्दीपनं लेखनमेव शस्तम् । संशोधनन्तु व्रणशोधबञ्च संरोपणं हृद्यतमञ्च बल्यम् ॥ त्रिदोषनाशं कुरुते च पुष्टिं कासे क्षये वा क्षतजे च छर्द्दौ । हिक्काभ्रमे शोषसपीनसानां रक्तप्रमेहे च तथातिसारे ॥ रक्तातिसारे च सरक्तपित्ते तृण्मोहहृत् पार्श्वगदेऽपि शस्तम् । नेत्रामये वा ग्रहणीगदे वा विषे प्रशस्तं भ्रमरैश्चितं यत् ॥” भ्रामरं सघनं जाड्यं भूयिष्ठं मधुरञ्च यत् । रूक्षं विशेषतो ज्ञेयं शीतलं लघुलेखनम् ॥”)
भ्रामरः, पुं, (भ्रामयति लौहमिति । भ्रामि + “अर्त्तिकमिभ्रमिदेवीति ।” उणा० ३ । १३२ । इति अरः । बाहुलकात् दीर्घश्च ।) प्रस्तरभेदः । मेदिनी । रे, १९१ ॥ चुम्बक पातर इति भाषा ॥ (अपस्माररोगः । इनि भ्रामरी त्रि । यथा, मनौ । ३ । १६१ । “भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा ॥” “भ्रामरी अपस्मारी ।” इति तद्भाष्ये मेधा- तिथिः ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रामर¦ न॰ भ्रमरेण संभृतं सम्पादितम् अस्येदं वा अण्।
१ मधुनि।
२ भ्रमरसम्यन्धिनि त्रि॰
३ अयस्कान्ते पु॰ मेदि॰।
“तदाहं भ्रामरं रूपं कृत्वाऽसंख्येयषट् पदम्” इत्युप-क्रम्य
“भ्रामरीति च मां लोकाः” इति देवीमा॰ उक्ते
४ चण्डीमूर्त्तिभेदे स्त्री। भ्रामरमधुगुणादि
“किञ्चित् सृक्ष्मैःप्रसिद्धेभ्यः पुष्पेभ्योऽलिभिश्चितम्। निर्मलं स्फटिकाभंयत्तन्मधु भ्रामरं स्मृतम्। भ्रामरं रक्तपित्तघ्नं मूत्र-जाड्यकरं गुरु। स्वादुपाकमभिष्यन्दि विशेषात् पिच्छिलंहिमम्” भावप्र॰ उक्तम्।
५ अपस्माररोगे शब्दमाला।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रामर¦ n. (-रं)
1. Whirling, going round.
2. A dance performed in a ring round-about.
3. A village.
4. Epilepsy,
5. A honey.
6. A mode of sexual enjoyment. m. (-रः) A sort of loadstone. f. (-री)
1. A name of PA4RVATI4 from her having assumed the form of a bee, in order to contend with MAHA4SUR.
2. Yo4gin4i, or female attendant on DURGA
4. E. भ्रमर a bee, &c. aff. अण् or घञ्।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रामर [bhrāmara], a. (-री f.) [भ्रमरेण संभृतं भ्रमरस्येदं वा अण्] Relating to a bee. -रः, -रम् A kind of loadstone.
रम् Whirling round.
Giddiness.
Epilepsy.
Honey; निर्मलं स्फटिकाभं यत् तन्मधु भ्रामरं स्मृतम् Bhāv. P.
A kind of coitus or mode of sexual enjoyment.
A village.
री An epithet of Durgā.
Going round, walking round from left to right; (= प्रदक्षिणा q. v.); as in दीयतां भ्रामर्यः Karpūr.4; Vb.2.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रामर mf( ई)n. (fr. भ्रमर)relating or belonging to a bee Ma1rkP.
भ्रामर m. n. a kind of magnet or loadstone L. (See. भ्रामक)
भ्रामर m. of a योगिनीor female attendant of -D दुर्गाW.
भ्रामर n. ( scil. मधु)honey Sus3r.
भ्रामर n. dancing round L.
भ्रामर n. vertigo , giddiness , epilepsy L.
भ्रामर n. a village L.
