भ्रामरम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भ्रामरम्, क्ली, (भ्रमरैः कृतं सम्भृतमिति । भ्रमर + “क्षुद्राभ्रमरवटरपादपादञ् ।” ४ । ३ । ११९ । इति अञ् ।) मधु । इति मेदिनी । रे, १९१ ॥ तत्तु भ्रमरजमधु । तस्य गुणाः । पिच्छलत्वम् । रूक्षत्वम् । मधुरत्वम् । मुखजाड्यनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । पैच्छिल्यात् स्वादु भूयस्त्वात् भ्रामरं गुरु कीर्त्तितम् ।” इति राजवल्लभः । अन्यच्च । “किञ्चित् सूक्ष्मैः प्रसिद्धेभ्यः षट्पदेभ्यीऽलिभि- श्चितम् । निर्म्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम् ॥ भ्रामरं रक्तपित्तघ्नं मूत्रजाड्यकरं गुरु । स्वादुपाकमभिष्यन्दि विशेषात् पिच्छिलं हिमम् ॥” इति भावप्रकाशः ॥ नृत्यविशेषः । तत्पर्य्यायः । रासः २ मण्डल- नृत्यम् ३ हल्लीसम् ४ । इति शब्दमाला ॥ भ्रमरसम्बन्धिनि त्रि । यथा, -- “तदाहं भ्रामरं रूपं कृत्वासंख्येयषट्पदम् ।” इति देवीमाहात्म्यम् ॥ (यथा च हारीते प्रथमे स्थाने एकादशेऽध्याये । मध्वर्थे लक्षणं गुणाश्च । “शीतं कषायं मधुरं लघु स्यात् सन्दीपनं लेखनमेव शस्तम् । संशोधनन्तु व्रणशोधबञ्च संरोपणं हृद्यतमञ्च बल्यम् ॥ त्रिदोषनाशं कुरुते च पुष्टिं कासे क्षये वा क्षतजे च छर्द्दौ । हिक्काभ्रमे शोषसपीनसानां रक्तप्रमेहे च तथातिसारे ॥ रक्तातिसारे च सरक्तपित्ते तृण्मोहहृत् पार्श्वगदेऽपि शस्तम् । नेत्रामये वा ग्रहणीगदे वा विषे प्रशस्तं भ्रमरैश्चितं यत् ॥” भ्रामरं सघनं जाड्यं भूयिष्ठं मधुरञ्च यत् । रूक्षं विशेषतो ज्ञेयं शीतलं लघुलेखनम् ॥”)
