सामग्री पर जाएँ

भ्रूणहा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भ्रूणहा, [न्] त्रि, (भ्रूणं हन्तीति । भ्रूण + हन् + “ब्रह्मभ्रूणवृत्तेषु ।” ३ । २ । ८७ । इति क्विप् ।) गर्भस्थबालकहन्ता । भ्रूणं हन्ति इति भ्रूण- शब्दोपपदहनधातोष्टप्रत्ययेन निष्पन्नः । इति संक्षिप्तसारव्याकरणम् ॥ (यथा, महाभारते । १ । ८३ । ३४ । “ऋतुं वै याचमानाया न ददाति पुमानृतुम् । भ्रूणहेत्युच्यते ब्रह्मन् ! स इह ब्रह्मवादिभिः ॥”) तस्य प्रायश्चित्तम् । तत्र पुंस्त्वेन ज्ञाते पुंवध- प्रायश्चित्तम् । स्त्रीत्वेन ज्ञाते स्त्रीबधप्रायश्चि- त्तम् । अविज्ञाते तु पुंबधप्रायश्चित्तमाह मनुः । “हत्वा गर्भमविज्ञातमेतदेव ब्रतञ्चरेत् । गर्भहा च यथावर्णं तथात्रेयीनिसूदनः ॥” इति प्रायश्चित्तविवेकः ॥ (ब्रह्महन्ता । यथा, मनुः । ८ । ३२७ । “अन्नादेर्भ्रूणहा मार्ष्टि पत्यौ भार्य्यापचारिणी ॥” “भ्रूणहा ब्रह्महा ।” इति तद्भाष्ये मेधातिथिः ॥)

"https://sa.wiktionary.org/w/index.php?title=भ्रूणहा&oldid=155226" इत्यस्माद् प्रतिप्राप्तम्