मकुष्टकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्टकः, पुं, (मकि भूषायां + उः । पृषोदरादि- त्वात् साधुर्मकुः । मकुं भूषां स्तकति प्रति- हन्तीति । स्तक + पचाद्यच् ।) वनजातमुद्गः । मोठ इति हिन्दी भाषा ॥ मुगानि इति वङ्गभाषा । तत्पर्य्यायः । मयष्टः २ वनमुद्गः ३ कृमीलकः ४ अमृतः ५ अरण्यमुद्गः ६ वल्ली- मुद्गः ७ । अस्य गुणाः । कषायत्वम् । मधुर- त्वम् । रक्तपित्तज्वरदाहहरत्वम् । पथ्यत्वम् । रुचिकारित्वम् । सर्व्वदोषजयकारित्वञ्च । इति राजनिर्घण्टः ॥ “मकुष्टो बातलो ग्राही कफपित्तहरो लघुः । वान्तिजिन्मधुरः पाके कृमिकृज्ज्वरनाशनः ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=मकुष्टकः&oldid=155270" इत्यस्माद् प्रतिप्राप्तम्