मग्नः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मग्नः, त्रि, (मस्ज् + क्तः । “ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातकारस्य नत्वम् । “स्कोः संयोगाद्यो रन्ते च ।” ८ । २ । २९ । इति सलोपः । चोः कुत्वञ्च ।) स्नातः । जलान्तःप्रविष्टः । डोवा इति भाषा ॥ (यथा, देवीभागवते । १ । ६ । २५ । “केन सृष्टं कथं जातं मग्नावावां जले स्थितौ ॥”) मस्जधातोः कर्त्तरि क्तप्रत्ययेन निष्पन्नः ॥

"https://sa.wiktionary.org/w/index.php?title=मग्नः&oldid=155312" इत्यस्माद् प्रतिप्राप्तम्