मङ्गलनीराजनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मङ्गलनीराजनम्, क्ली, (मङ्गलं मङ्गलकरं मङ्ग- लाय वा नीराजनम् ।) ब्राह्ममुहूर्त्तकर्त्तव्य भगवदारात्रिकम् । मङ्गल आरती इति भाषा ॥ यथा, -- “पठित्वाथ प्रियान् श्लोकान् महावादित्र- निःस्वनैः । प्रभोर्नीराजनं कुर्य्यान्मङ्गलाख्यं जगद्धितम् ॥ नीराजनन्त्विदं सर्व्वैः कर्त्तव्यं शुचिविग्रहैः । परमश्रद्धयोत्थाय द्रष्टव्यञ्च सदा नरैः ॥ स्त्रीणां पुंसाञ्च सर्व्वेषामेतत् सर्व्वेष्टपूरकम् । समस्तदैन्यदारिद्र्यदुरिताद्युपशान्तिकृत् ॥” इति श्रीहरिभक्तिविलासे ३ विलासः ॥
