सामग्री पर जाएँ

मङ्गलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मङ्गलम्, क्ली, (मङ्गति हितार्थं सर्पति मङ्गति दुरदृष्टमनेनास्माद्वेति । मगि + “मङ्गतेरलच् ।” उणा० ५ । ७० । इत्यलच् ।) अभिप्रेतार्थ- सिद्धिः । इति तिथ्यादितत्त्वम् ॥ तद्वति, त्रि । इत्यमरः ॥ यथा, रामायणे । २ । २३ । ३० । “मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव ॥” तत्पर्य्यायः । भावुकम् २ भव्यम् ३ कल्याणम् ४ भविकम् ५ शुभम् ६ । क्षेमम् ७ प्रशस्तम् ८ भद्रम् ९ स्वश्रेयसम् १० शिवम् ११ अरिष्टम् १२ कुशलम् १३ रिष्ठम् १४ मद्रम् १५ शस्तम् १६ । इति शब्दरत्नावली ॥ (यथा, भागवते । ५ । १४ । ३४ । “मङ्गलाय च लोकानां क्षेमाय च भवाय च ।” “कल्याणं मङ्गलं क्षेमं शातं शर्म्म शिवं शुभम् । इति वैद्यकरत्नमालायाम् ॥ हिरण्यं सर्पिरादित्य अपो राजा तथाष्टमः ॥ एतानि शततं पश्येन्नमस्येदर्च्चयेत्ततः । प्रदक्षिणन्तु कुर्व्वीत तथा चायुर्न हीयते ॥ दूर्व्वा दधि सर्पिरथोदकुम्भं धेनुं सवत्सां वृषभं सुवर्णम् । मृद्गोमयं स्वस्तिकमक्षतानि लाजा मधु ब्राह्मणकन्यकाश्च ॥ श्वेतानि पुष्पाणि तथा शमीञ्च हुताशनं चन्दनमर्कविम्बम् । अश्वत्थवृक्षञ्च समालभेत ततश्च कुर्य्याद्द्विजजातिधर्म्मम् ॥” इति मत्स्यसूक्तमहातन्त्रे ४३ पटलः ॥ वर्णभेदे मङ्गलप्रश्नभेदो यथा, -- “ब्राह्मणान् कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥” इति कौर्म्मे उपविभागे ११ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=मङ्गलम्&oldid=155334" इत्यस्माद् प्रतिप्राप्तम्