मङ्गल्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मङ्गल्यम्, क्ली, (मङ्गलाय साधु इति । मङ्गल + “तत्र साधुः ।” ४ । ४ । ९८ । इति यत् ।) दधि । इति मेदिनी । ये, १०१ ॥ चन्दनम् । मङ्गल्यागुरु । स्वर्णम् । सिन्दूरम् । इति राज- निर्घण्टः ॥
मङ्गल्यम्, त्रि, (मङ्गलाय साधु । मङ्गल + यत् ।) शिवकरम् । इति मेदिनी । ये, १०१ ॥ (यथा, उत्तरचरिते । ७ म अङ्के । “पाप्मभ्यश्च पुनाति वर्द्धयति च श्रेयांसि येयं कथा । मङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च ॥” यथाच, महाभारते । १ । १ । २४ । मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् । नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥”) रुचिरम् । इति हेमचन्द्रः ॥ साधुः । इति धरणिः ॥
