मङ्गल्या
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मङ्गल्या, स्त्री, (मङ्गलाय साधुरिति यत् । टाप् ।) मल्लिकागन्धयुक्तागुरु । इत्यमरः । २ । ६ । १२७ ॥ शमी । अधःपुष्पी । मिसी । शुक्लवचा । रोचना । इति मेदिनी । ये, १०० ॥ प्रियङ्गुः । शङ्खपुष्पी । इति हेमचन्द्रः ॥ माषपर्णी । जीवन्ती । ऋद्धिः । वचा । हरिद्रा । चीडा । इति राजनिर्घण्टः ॥ दूर्व्वा । इति रत्नमाला ॥ दुर्गा । यथा, -- “शोभनानि च श्रेष्ठानि या देवी ददते हरे । भक्तानामार्त्तिहरणी मङ्गल्या तेन सा स्मृता ॥” इति देवीपुराणे ४४ अध्यायः ॥ (वचार्थे पर्य्यायो यथा, -- “तीक्ष्णोग्रगन्धा जटिला मङ्गल्या विजया वचा । षड्ग्रन्थोग्रा च रक्षोघ्नी सिता हैमवती तु सा ॥” मिस्यर्थे यथा, -- “अवाक्पुष्पी च छत्रा स्यान्मङ्गल्या मधुरा मिसी ॥” हेमपुष्पी । तत्पर्य्यायो यथा, -- “अवाक्पुष्पी त्वधःपुष्पी मङ्गल्यामरपुष्पिका ॥” इति च वैद्यकरत्नमालायाम् ॥ रोचनार्थे पर्य्यायो यथा, -- “गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना ।” शम्यर्थे पर्य्यायो यथा, -- “शमी शक्तुफला तुङ्गा केशहन्त्री फला शिवा । मङ्गल्या च तथा लक्ष्मीः शमीरः साल्पिका स्मृता ॥” मसूरः । तत्पर्य्यायो यथा, -- “मङ्गल्यको मसूरः स्यान्मङ्गल्या च मसूरिका ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मङ्गल्या नपुं।
मङ्गल्या
समानार्थक:मङ्गल्या,मल्लिगन्धि
2।6।127।1।3
कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत्. यक्षधूपः सर्जरसो रालसर्वरसावपि॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मङ्गल्या¦ स्त्री मङ्गलाय हिता यत्।
१ मल्लिकागन्धयुक्ता-गुरुणि अमरः
२ रोचनायाम्
३ अवाक्पुष्प्याम्
४ शम्यां
२ शुक्लवचायां मेदि॰
६ प्रियङ्गौ
७ माषपर्ण्यां हेमच॰
८ शतपुष्प्याम्
९ जीवन्त्याम्
१० ऋद्धिनामौषधौ
११ हरिद्रायां
१२ दूर्वायां राजनि॰
१३ दुर्गायाञ्च स्त्री रत्नमा॰।
“मङ्गल्याऽगुरुशिशिरा गन्धाणा दोषवाहिका” राजनि॰
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मङ्गल्या f. (only L. )a species of fragrant sandal
मङ्गल्या f. Anethum Sowa
मङ्गल्या f. Mimosa Suma
मङ्गल्या f. Terminalia Chebula
मङ्गल्या f. Andropogon Acicuilatus
मङ्गल्या f. Curcuma Longa
मङ्गल्या f. a partic. bulb( ऋद्धि)
मङ्गल्या f. दूर्वाgrass
मङ्गल्या f. = अधः-पुष्पी
मङ्गल्या f. = जीवन्ती
मङ्गल्या f. = प्रियङ्गु
मङ्गल्या f. = माथ-पर्णी
मङ्गल्या f. Acorus Calamus
मङ्गल्या f. N. of a partic. yellow pigment(= गो-रोचना) Bhpr.
मङ्गल्या f. a partic. resin L.
मङ्गल्या f. N. of दुर्गाDevi1P.
