मञ्जीरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मञ्जीरः, पुं, क्ली, (मञ्जति मधुरं शब्दायते । इति मन्ज् ध्वनौ सौत्रधातुः + बाहुलकात् ईरन् ।) नूपुरः । इत्यमरः । २ । १०९ ॥ मञ्जीरोऽस्त्री स नूपुरः । इति रभसः ॥ (यथा, गीतगोविन्दे । ५ । ११ । “मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषु लोलम् ॥”)
मञ्जीरः, पुं, (मञ्ज + ईरन् ।) मन्थानदण्डरज्जु बन्धनार्थस्तम्भः । तत्पर्य्यायः । विष्कम्भः २ कुटरः २ । इति हेमचन्द्रः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मञ्जीरः [mañjīrḥ] रम् [ram], रम् [मञ्ज्-ध्वनौ ईरन्] An anklet or ornament for the foot (नूपुर); सिञ्जानमञ्जुमञ्जीरं प्रविवेश निकेतनम् Gīt 11; or मुखमधीरं त्यज मञ्जीरं रिपुमिव केलिषु लोलम् 5; Māl.1. -रम् A post round which the string of the churning stick passes.
