मञ्जुघोषः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मञ्जुघोषः, पुं, (मञ्जुर्मनोहरो घोषः शब्दोऽस्य ।) पूर्ब्बजिनभेदः । इति त्रिकाण्डशेषः ॥ उपास्य- देवताविशेषः । अस्य मन्त्रादि यथा, -- “जाड्यौघतिमिरध्वंसी संसारार्णवतारकः । श्रीमञ्जुघोषो जयतां साधकानां सुखावहः ॥” तत्रागमोत्तरे । “मातृकादि समुद्धत्य वह्निबीजं समुद्धरेत् । वामांसं कूर्म्मसंज्ञञ्च ततो मेषेशमुद्धरेत् ॥ मीनेशञ्च ततः कुर्य्यात् वामनेत्रेन्दुसंयुतम् । षडक्षरो मनुः प्रोक्तो मञ्जुघोषस्य शम्भुना ॥ इयस्तु दीपनी प्रोक्ता मूलमन्त्रस्तु कथ्यते । अङ्कुशं शक्तिबीजञ्च रमाबीजं ततः प्रिये ! ॥ बीजत्रयात्मको मन्त्रो जाड्यौघध्वान्तनाशनः । शक्तिबीजं रमाबीज कामबीजं तथा प्रिये ! ॥ विद्या श्रुतिधरी प्रोक्ता एषा वर्णत्रयात्मिका । हकारो वह्निमारूढो बालनेत्रेन्दुभूषितः । एवं सिद्धमनुर्मन्त्री महायोगीश्वरो भवेत् ॥” इति तन्त्रसारः ॥ प्रकारान्तरं कुक्कुटादितन्त्रे द्रष्टव्यम् ॥
