मञ्जुभद्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मञ्जुभद्रः, पुं, (मञ्जु मनोहरं भद्रं मङ्गलं यस्य ।) जिनविशेषः । तत्पर्य्यायः । मञ्जुश्रीः २ ज्ञान- दर्पणः ३ मञ्जुघोषः ४ कुमारः ५ अष्टारचक्र- वान् ६ स्थिरचक्रः ७ वज्रधरः ८ प्रज्ञा- कायः ९ वादिराट् १० नीलोत्पली ११ महा- राजः १२ नीलः १३ शार्द्दूलवाहनः १४ धियाम्पतिः १५ पूर्ब्बजिनः १६ खड्गी १७ दण्डी १८ विभूषणः १९ बालव्रतः २० पञ्च- चीरः २१ सिंहकेलिः २२ शिखाधरः २३ वागीश्वरः २४ । इति त्रिकाण्डशेषः ॥
