मणिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मणिः, पुं, स्त्री, (मण + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इतीन् ।) अश्मजातिः । (यथा, रघौ । १ । ४ । “मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ।”) मुक्तादिकम् । तत्पर्य्यायः । रत्नम् २ मणी ३ । इत्यमरः । २ । ९ । ९३ । (तथाचास्य पर्य्यायः । “रत्नं क्लीवे मणिः पुंसि स्त्रियामपि निगद्यते । तत्तु पाषाणभेदोऽस्ति मुक्तादि च तदुच्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।) अस्य गुणाः । “मणिरत्नं परं शीतं कषायं स्वादु लेखनम् । चक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम् ॥” इति राजबल्लभः ॥ (तथाचास्य गुणाः । “मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादयः । चक्षुष्या मणयः शीता लेखना विषसूदनाः । पवित्रा धारणायाश्च पाप्मालक्ष्मीमलापहाः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ।) अजायाः कण्ठस्थितस्तनः । लिङ्गाग्रम् । अलि- ञ्जरः । इति मेदिनी । २४ ॥ योन्यग्रभागः । इति शब्दरत्नावली ॥ नागविशेषः । इति जटाधरः ॥ मणिबन्धः । इति हेमचन्द्रः ॥ (मुनिभेदः । यथा, महाभारते । २ । ११ । २२ । “असितो देवलश्चैव जैगिषव्यश्च तत्त्ववित् । ऋषभो जितशत्रुश्च महावीर्य्यस्तथा मणिः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मणिः [maṇiḥ], [मण्-इन् स्त्रीत्वपक्षे वा ङीप्] (Said to be f. also, but rarely used)
A jewel, gem, precious stone; मणिर्लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः H.2.68; अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति Bv.1.73; मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः R.1.4;3.18.
An ornament in general.
Anything best of its kind; cf. रत्न.
A magnet, loadstone.
The wrist.
A water-pot.
Clitoris.
Glans penis.
A crystal; क्वचिन्मणिनिकाशोदाम् (नदीम्) Rām. 2.95.9.
The fleshy excrescence on the neck of a goat (also written मणी in these senses).
An ingot, a lump (of gold); यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् Ch. Up.6.1.5. -Comp. -इन्द्रः, -राजः a diamond. -कण्ठः the blue jay. -कण्ठकः a cock.-कर्णिका, -कर्णी N. of a sacred pool in Benares. -काचः the feathered part of an arrow. -काञ्चनयोगः a rare combination of mutually worthy things. -काननम् the neck. -कारः a lapidary, jeweller; मणिकाराश्च ये केचित् Rām.2.83.12. -गुणः a quality of gems; षडश्रश्चतुरश्रो वृत्तो वा, तीव्ररागसंश्थानवानच्छः स्निग्धो गुरुरर्चिष्मानन्तर्गतप्रभः प्रभानु- लेपी चेति मणिगुणाः Kau. A.2.11.29. -ग्रीवः a son of Kubera. -तारकः the crane or Sārasa bird. -तुण्डः a striped hyena; Nighaṇṭaratnākara. -तुलाकोटिः a foot ornament consisting of jewels. -दण्ड a. having a handle adorned with jewels. -दर्पणः a jewelled mirror.
दीपः a lamp having jewels; मणिदीपप्रकाशितं ...... पश्येदं रङ्गमन्दिरम्
a jewel serving as a lamp. -दोषः a flaw or defect in a jewel.
द्वीपः the hood of the serpent Ananta.
N. of a fabulous island in the ocean of nectar; सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिसरे । मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे Saundaryalaharī. -धनुःm., -धनुस् n. a rainbow. -पाली a female keeper of jewels. -पुष्पकः N. of the conchshell of Sahadeva; नकुलः सहदेवश्च सुघोषमणिपुष्पकौ Bg.1.16.
पूरः the navel,
a kind of bodice richly adorned with jewels.
(रम्) N. of a town in Kaliṅga.
the pit of the stomach, or a mystical circle on the navel (also मणि- पूरक); तदूर्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम् । ...... मणिवद् भिन्नं तत्पद्मं मणिपूरं तथोच्यते Yogagrantha. ˚पतिः an epithet of Babhruvāhana. -प्रवेकः a most excellent jewel. -प्रभा N. of a metre.
बन्धः the wrist; रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते Ś.7.
the fastening of jewels; R.12.12; मणिबन्धैर्निगूढैश्च सुश्लिष्टशुभसन्धिभिः Garuḍa P.
a kind of metre.
बन्धनम् fastening on of jewels, a string or ornament of pearls.
that part of a ring or bracelet where the jewels are set; collet; Ś.6.
the wrist; ...... मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते Ś.3.13.-बीजः, -वीजः the pomegranate tree. -भावरः an Indian crane; Nighaṇṭaratnākara. -भित्तिः f. N. of the palace of Śesa. -भूः f. a floor set with jewels. -भूमिः f.
a mine of jewels.
a jewelled floor, floor inlaid with jewels.
मण्डपः N. of the residence of Śeṣa.
a crystal hall. -मन्तकम् a variety of diamonds; Kau. A.2.11.29. -मन्थम् rock-salt; क्वणन्मणिमन्थभूधर भवशिला- लेहायेहाचणो लवणस्यति N.19.18.
माला a string or necklace of jewels.
lustre, splendour, beauty.
a circular impression left by a bite (in amorous sports).
N. of Lakṣmī.
N. of a metre. -मेखल a. girdled with gems. -यष्टिः m., f. a jewelled stick, a string of jewels. -रत्नम् a jewel, gem. -रागः the colour of jewels. (-गम्) vermilion. -विग्रह a. jewelled; काञ्चनीं मणिविग्रहाम् Rām.6.128.75. -विशेषः an excellent jewel. -शिला a jewelled slab. -सरः a necklace; मणिसरममलं तारकपटलं नखदशशशिभूषिते Gīt. -शृङ्गः the god of the sun. -सूत्रम् a string of pearls. -सोपानम् a jewelled staircase. -स्तम्भः a pillar inlaid with jewels. -हर्म्यम् a jewelled or crystal palace.
