मणिद्वीपः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मणिद्वीपः, पुं, क्ली, (मणिप्रचुरो द्वीपः ।) क्षीर- समुद्रमध्ये पद्मरागादिमणिमयान्तरीपः । स च त्रिपुरसुन्दरीवासस्थानम् । यथा, -- “सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिसरे मणिद्वीपे नीपीपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्य्यङ्कनिलयां भजन्ति त्वां धन्याः कति च न चिदानन्दलहरीम् ॥” इत्यानन्दलहरी ॥
