मणिपर्व्वतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मणिपर्व्वतः, पुं, (मणीनां पर्व्वतः ।) गिरि- विशेषः । यथा, -- “ततोऽभ्ययाद्गिरिश्रेष्ठमभितो मणिपर्व्वतम् । तत्र पुण्या ववुर्वाता ह्यभवंश्चामलाः प्रभाः ॥ मणीनां हेमवर्णानामभिभूय दिवाकरम् । तत्र वैदूर्य्यवर्णानि ददर्श मधुसूदनः ॥ सतोरणपताकानि द्वाराणि शिखराणि च । विद्युद्ग्रथितमेघाभः प्रबभौ मणिपर्व्वतः ॥ हेमचित्रवितानैश्च प्रासादैरुपशोभितः । तत्र ता हेमवर्णाभा ददर्श मधुसूदनः ॥ गन्धर्व्वासुरमुख्यानां प्रिया दुहितरस्तथा । ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे ॥ नरकेण समानीता रक्ष्यमाणाः समन्ततः ॥” इति महाभारते हरिवंशे नरकवधाध्यायः ॥
