सामग्री पर जाएँ

मणिपूरम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मणिपूरम्, क्ली, षट्चक्रान्तर्गतनाभिमध्यस्थतृतीय- चक्रम् । यथा, -- “तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम् । मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः । मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते ॥ दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् । शिवेनाधिष्ठितं पद्मं विश्वालोकनकारणम् ॥” इति तन्त्रम् ॥ तत्तु स्वाधिष्ठानपद्मस्योर्द्ध्वदेशे तिष्ठति । यथा, -- “एतत्पद्मस्योर्द्ध्वदेशे महापद्मं सुदुर्लभम् । दशपत्रं नीलवर्णं सजलं घोररूपकम् । डादिफान्तैः सचन्द्रैश्च पङ्कजञ्चातिशोभनम् ॥ तन्मध्ये बीजकोषे निवसति सततं वह्निवीजं सुसिद्धं वाह्ये तत्त्रेपुराख्यं नवतपननिभं स्वस्तिकं तत्त्रिभागे ॥ स्वर्णकाख्यमिदं देवि ! सर्व्वदेवप्रपूजितम् । साकारं वह्निबीजञ्च सदैव मेघवाहनम् ॥ रुद्रालयं हि तत्रैव महामोहस्य नाशनम् । भद्रकाली महाविद्या वामभागे सुशोभिता ॥” इति निर्व्वाणतन्त्रे ६ पटलः ॥ तत्र देवतीर्थं यथा, रुद्रयामले । मणिपूरे देवतीर्थं पञ्चकुण्डं सरोवरम् । तत्र श्रीकामनातीर्थं स्नाति यो मुक्तिमिच्छति ॥” (मणीनां पूरोऽत्र ।) स्वनामख्यातदेशश्च ॥ (यथा, महाभारते १ । २१८ । २३ । “चित्राङ्गदां पुनर्द्रष्टुं मणिपूरपुरं ययौ ॥”)

"https://sa.wiktionary.org/w/index.php?title=मणिपूरम्&oldid=155468" इत्यस्माद् प्रतिप्राप्तम्