सामग्री पर जाएँ

मणिबन्धः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मणिबन्धः, पुं, (मणिर्बध्यते यत्र । अधिकरणे घञ् ।) प्रकोष्ठपाण्योः सन्धिस्थानम् । इत्य- मरटीकायां भरतः । कब्जा इति भाषा ॥ स च करस्यादिभागः । (यथा, अभिज्ञानशकुन्तले ३ अङ्कः । “मणिबन्धाद्गलितमिदं संक्रान्तोशीरपरिमलं तस्याः ।”) तत्पर्य्यायः । मणिः २ । इति हेमचन्द्रः ॥ कर- ग्रन्थिः ३ करग्रन्थिकः ४ । इति शब्दरत्ना- बली ॥ तस्य शुभाशुभलक्षणं यथा, -- “मणिबन्धैर्निगूढैश्च सुश्लिष्टशुभसन्धिभिः । नृपा हीनैः करच्छेदैः सशब्दैर्धनवर्ज्जिताः ॥” इति गारुडे ६५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=मणिबन्धः&oldid=155470" इत्यस्माद् प्रतिप्राप्तम्