सामग्री पर जाएँ

मणिभद्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मणिभद्रः, पुं, (मणिषु भद्रः, यद्वा मणिभि- र्भद्रमस्य । मणिमुक्तादिधनाधिक्यादस्य तथा- त्वम् ।) जिनानां पूर्ब्बयक्षविशेषः । तत्पर्य्यायः । जम्भलः २ पूर्ब्बयक्षः ३ जलेन्द्रः ४ । इति त्रिकाण्डशेषः ॥ (प्रधानयक्षभेदः । यथा, महाभारते । ३ । ६४ । १२७ । “ऋते त्वां मानुषीं मर्त्त्यं न पश्यामि महावने । तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥” यथा च कथासरित्सागरे । १३ । १६५ । “अस्मद्देशे पुरस्यान्तर्मणिभद्र इति श्रुतः । पूर्ब्बैः कृतप्रतिष्ठोऽस्ति महायक्षः प्रभावितः ॥”)

"https://sa.wiktionary.org/w/index.php?title=मणिभद्रः&oldid=155472" इत्यस्माद् प्रतिप्राप्तम्