मण्डः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मण्डः, पुं, (मण्डयति क्षेत्रं भूषयतीति मडि + अच् ।) एरण्डवृक्षः । शाकभेदः । इति मेदिनी । ते, २१ ॥ मस्तु । भूषा । सारः । पिच्छम् । हेमचन्द्रः ॥ (मण्डति वर्षागमे हृष्यतीति मडि + अच् ।) दर्दूरः । भक्तादिभवरसः । तस्य लक्षणम् । “भक्तैर्विना द्रवो मण्डः पेयं भक्तसमन्वितम् ।” इति राजनिर्घण्टः ॥ (“तक्राल्लघुतरो मण्डः ।” इति च, सुश्रुते सूत्र- स्थाने ४५ अध्यायः ।) अथ मण्डस्य लक्षणं विधिर्गुणाश्च । “तण्डुलानां सुसिद्धानां चतुर्द्दशगुणे जले । रसः सिक्थैर्व्विरहितो मण्ड इत्यभिधीयते ॥ “शुण्ठी सैन्धवसंयुक्तो दीपनः पाचनश्च सः । अन्नस्य सम्यक् सिद्ध्यात्र ज्ञेया मण्डस्य सिद्धता ॥ पेया यूषयवागूनां विलेपीभक्तयोरपि ॥” तस्य गुणाः । “मण्डो ग्राही लघुः शीतो दीपनो धातुसाम्य- कृत् । ज्वरघ्नस्तर्पणो बल्यः पित्तश्लेष्मश्रमापहः ॥” इति भावप्रकाशः ॥ अपि च । “क्षुद्बोधनो वस्तिविशोधनश्च प्राणप्रदः शोणितवर्द्धनश्च । ज्वरापहारी कफपित्तहन्ता वायुं जयेदष्टगुणो हि मण्डः ॥” लाजमण्डोऽग्निजननो दाहतृष्णानिवारणः । ज्वरातीसारशमनोऽशेषदोषामपाचनः ॥ वाट्यमण्डोऽग्निजननः शूलानाहविनाशनः । पाचनो दीपनो हृद्यः पित्तश्लेष्मानिलापहः ॥” वाट्यमण्डो भृष्टयवमण्डः । इति राजवल्लभः ॥ (धान्यादिकृतमण्डगुणाः । क्लीवत्वं विवक्षितम् । “धान्यमण्डं पित्तहरं श्रमघ्नञ्चाश्मरीहरम् । वातलं रक्तशमनं ग्राहि सन्दीपनं परम् ॥” इति धान्यमण्डगुणाः ॥ “युगन्धराणां मण्डन्तु श्लेष्मकृद्वातलं मतम् । पित्तसंशमनीयञ्च मूत्रलं ग्राहणञ्च तत् ॥” इति युगन्धरमण्डगुणाः ॥ “रक्तशाल्युद्भवं मण्डं मधुरं ग्राहि शीतलम् । प्रमेहानश्मरीं हन्ति वातलं पित्तकृत्तथा ॥” इति रक्तशालिमण्डगुणाः ॥ “मधुरं शीतलं किञ्चित् श्लेष्मलं शोषनाशनम् । अश्मरीमेहसंछेदी वातलं श्वेतताण्डुलम् ॥” इति श्वेततण्डुलमण्डगुणाः ॥ “यवमण्ड कषायं स्याद् ग्राहि चोष्णं विपाकि च ।” इति यवमण्डगुणाः ॥ “तद्वत् गोधूमसंभूतं मधुरं पित्तवारणम् ।” इति गोधूममण्डगुणाः ॥ “ग्लानिमूर्च्छाकरं सद्यः कोद्रवाद्यकृतं लघु ।” इति कोद्रवमण्डगुणाः ॥ “तद्वच्च क्षुद्रधान्यानां वातलं पित्तकारकम् । करोति श्लीपदं गुल्मं प्रतिश्यायादिकोपनम् ॥” इति क्षुद्रधान्यमण्डगुणा ॥ इति मण्डवर्गाः ॥ इति हारीते प्रथमे स्थाने नवमेऽध्याये ॥ “मण्डस्तु दीपयत्यग्निं वातञ्चाप्यनुलोमयेत् । मृदूकरोति स्रोतांसि स्वेदं सञ्जनयत्यपि ॥ लङ्घितानां विरिक्तानां जीर्णे स्नेहे च तृष्य- ताम् । दीपनत्वाल्लघुत्वाञ्च मण्डः स्यात् प्राणधारणः ॥ तृष्णातीसारशमनो धातुसाम्यकरः शिवः । लाजमण्डोऽग्निजननो दाहमूर्च्छानिवारणः ॥ मन्दाग्निविषमाग्नीनां बालस्थविरयोषिताम् । देयश्च सुकुमाराणां लाजमण्डः सुसंस्कृतः । क्षुत्पिपासासहः पथ्यः शुद्धानान्तु मलापहा ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः । वातानुलोमनो हृद्यः पिप्पलीनागरायुतः ॥” इति सुश्रुते सूत्रस्थाने ४६ अथ्यायः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मण्डः [maṇḍḥ] ण्डम् [ṇḍam], ण्डम् [मन्-ड तस्य नेत्वं, मण़्ड्-अच् वा]
The thick oily matter or scum forming on the surface of any liquid.
The scum of boiled rice; नीवारौदनमण्डमुष्णमधुरम् U.4.1; तण्डुलानां सुसिद्धानां चतुर्दशगुणे जले । रसः सिक्थैर्विरहितो मण्ड इत्यभिधीयते Bhāva. P.
Cream (of milk).
Foam, froth or scum in general; घृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् Śvet. Up.4.16; श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा Mb.12.318.68.
Ferment.
Gruel.
Pith, essence.
The head.
The spirituous part of wine; राज्यं गतधनं साधो पीतमण्डां सुरामिव Rām.2.36.12.
ण्डः An ornament, decoration.
A frog.
The castor-oil tree.
ण्डा Spirituous liquor.
The emblic myrobalan tree.
Comp. उदकम् barm, yeast.
decorating walls, floors &c. on festive occasions.
mental agitation or excitement.
variegated colour.-जातम् the second change which takes place in sour milk. -प a. drinking scum or cream. -पीठिका two quarters of the compass. -हारकः a distiller of spirits &c.
