मण्डम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मण्डम्, क्ली, पुं, (मन्यते ज्ञायते अनेन अन्नादिक- मिति । मन + “ञमन्तात् डः ।” उणा० १ । ११३ । इति डः ।) सर्व्वेषामन्नदध्यादीनामग्ररसः । इत्यमरभरतौ । माड् इति मात् इति च भाषा ॥ (यथा, उत्तररामचरिते ४ अङ्के । १ । “नीवारौदनमण्डमुष्णमधुरं सद्यःप्रसूताप्रिया- पीतादप्यधिकं तपोवनमृगः पर्य्याप्तमाचामति ॥”) सारः । पिच्छम् । इति मेदिनी । डे, २१ ॥
मण्डम्, क्ली, (मण्डतीति । मडि भूषादौ + अच् ।) मस्तु । इति मेदिनी । डे, २१ ॥ (यथा, भाग- वते । ५ । २० । २४ । “समानेन दधिमण्डोदेन परितः ॥”)
