मण्डलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मण्डलः, पुं, (मण्डं लाति गृह्णातीति । ला + कः ।) कुक्कुरः । इति मेदिनी । ले, १२१ ॥ सर्पविशेषः । इति विश्वः ॥ (देहस्याष्टप्रकारसन्ध्यन्त- र्गतसन्धिविशेषः । “त एते सन्धयोऽष्टविधाः । कोरोदूखल-सामुद्ग-प्रतर-तुन्नसेवनीवायसतुण्ड- मण्डल-शङ्खावर्त्ताः ।” ‘कण्ठहृदयनेत्रक्लोम- नाडीषु मण्डलाः ।’ इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥)
