मण्डलम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मण्डलम्, क्ली, (मण्डयति भूषयतीति । मडि + “कलस्तृपश्च ।” उणा० । १ । १०६ । इति कलः ।) चन्द्रसूर्य्ययोर्बहिर्व्वेष्टनम् । चन्द्रसूर्य्ययोरुत्पातज- रश्मिमण्डलम् । यथा, -- “वातेन मण्डलीभूताः सूर्य्याचन्द्रमसोः कराः । मालाभा व्योम्नि तन्वन्ते परिवेशः प्रकीर्त्तितः ॥” इति साहसाङ्कः ॥ तत्पर्य्यायः । परिवेशः २ परिधिः ३ उप- सूर्य्यकम् ४ । इत्यमरः । १ । ३ । ३२ ॥ परिवेषः मूर्द्वन्यान्तोऽपि । यथा, -- “पुंलिङ्गः परिवेषः स्यात् परिधौ परिवेषणे ।” इति मूर्द्धन्यान्ते रुद्रः ॥ सूर्य्यमुपगतं उपसूर्य्यं स्वार्थे कः उपसूर्य्यकम् । चन्द्रपक्षे उपसूर्य्यमिव उपसूर्य्यकं इवार्थे कः । इति भरतः ॥ * ॥ चक्रबालम् । इत्यमरः । १ । ३ । ६ ॥ तत्तु मण्डलाकारेण परिणतं समूहमात्रम् । मण्डलाकारदिक्समूहः । इति माधवी ॥ चक्रस्येव वालो वलनमस्य चक्र- बालं वलेर्घञि वालः मनीषादित्वात् लस्य डत्वे चक्रवाडञ्च । किंवा चक्रेण चक्रा- कारेण वाडते चक्रवाडं वाडृङ आप्लावे अल् । इति भरतः ॥ * ॥ कोठरोगः । द्बादश- राजकम् । इति मेदिनी । १ ले, २१ ॥ (उक्तञ्च तद्विवरणं कामन्दकीये नीतिसारे । ८ । १ -- २२ । “उपेतः कोषदण्डाभ्यां सामात्यः सह मन्त्रिभिः । दुर्गस्थश्चिन्तयेत्साधु मण्डलं मण्डलाधिपः । रथी विराजते राजा विशुद्धे मण्डले चरन् । अशुद्धे मण्डले सर्पन् शीर्य्यते रथचक्रवत् ॥ रोचते सर्व्वभूतेभ्यः शशीवाखण्डमण्डलः । सम्पूर्णमण्डलस्तस्माद्बिजिगीषुः सदा भवेत् ॥ अमात्यराष्ट्रदुर्गाणि कोषो दण्डश्च पञ्चमः । एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥ एताः पञ्च तथा मित्रं सप्तमः पृथिवीपतिः । सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥ सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः । जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः ॥ कौलीनं वृद्धसेवित्वसुत्साहः स्थूललक्षिता । चित्रज्ञता बुद्धिमत्त्वं प्रागल्भ्यं सत्यवादिता ॥ अदीर्घसूत्रताऽक्षौद्रं प्रश्रयः स्वप्रधानता । देशकालज्ञता दार्ढ्यं सर्व्वक्लेशसहिष्णुता ॥ सर्व्वविज्ञानिता दाक्ष्यं सदा संवृतमन्त्रता । अविसंवादिता शौर्य्यं भक्तिज्ञत्वं कृतज्ञता ॥ शरणागतवात्सल्यममर्षित्वमचापलम् । स्वकर्म्मदृष्टशास्त्रत्वं कृतित्वं दीर्घदर्शिता ॥ जितश्रमित्वं धर्म्मित्वमक्रूरपरिवारता । प्रकृतिस्फीतता चेति विजिगीषुगुणाः स्मृताः ॥ सर्व्वैर्गुणैर्विहीनोऽपि स राजा यः प्रतापवान् । प्रतापयुक्ता ह्यस्यन्ति परान् सिंहा मृगानिव ॥ चतुःकोणं द्विजाग्रस्य त्रिकोणं क्षत्त्रियस्य तु । द्विकोणाकृति वैश्यस्य शूद्रस्य वर्त्तुलं सदा ॥” इत्याद्ये वह्निपुराणे आह्निकतपोनामाध्यायः ॥
मण्डलम्, त्रि, विम्बम् । इत्यमरः । १ । ३ । १५ ॥ द्वे चन्द्रस्य शरीरे उपचारादादित्यस्य च । वेति शोभते विम्बः वीलकान्तिगत्यादौ नाम्नीति विम्बः । विम्बति भाति विम्बः । सौत्रोऽयमिति स्वामी । मण्डयति मण्डलं नाम्नीति अलः स्त्रियां नदा- दित्वात् मण्डली च । इति भरतः ॥
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--(ब्राह्मणम्) to be selected for reci- tation at श्राद्ध. M. १७. ३९. [page२-599+ २७]
(II)--a place near प्रयागा protected by Hari; फलकम्:F1: M. १०४. 9.फलकम्:/F five yojanas in extent; फलकम्:F2: Ib. १०८. 9.फलकम्:/F every step there, is equal to an अश्वमेध. फलकम्:F3: Ib. १११. 8.फलकम्:/F
