मण्डलेश्वरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मण्डलेश्वरः, पुं, (मण्डलस्य ईश्वरः ।) भूम्येक- देशाधिपः । अन्यो भूम्येकदेशाधिपो मण्डले- श्वरः स्यात् मण्डलस्य अरिमित्रादिरूपस्य देशस्य ईश्वरो मण्डलेश्वरः । एकदेशाधिप इत्यर्थः । स्यान्मण्डलं द्वादशराजके च देशे च विम्बे च कदम्बके च । इति विश्वः ॥ इत्यमर- टीकायां भरतः ॥ तस्य लक्षणान्तरम् । “चतुर्योजनपर्य्यन्तमधिकारं नृपस्य च । यो राजा तच्छतगुणः स एव मण्डलेश्वरः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अध्यायः ॥
