मण्डूकपर्णी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मण्डूकपर्णी, स्त्री, (मण्डूकपर्ण । गौरादित्वात् ङीष् ।) मञ्जिष्ठा ॥ (यथास्या पर्य्यायः । “मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥ रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका । भण्डीतकी च गण्डीरी मञ्जूषा वस्त्ररञ्जिनी ॥”) ब्राह्मणी इति मेदिनी । णे, ११५ ॥ आदित्य, भक्ता । इति राजनिर्घण्टः ॥ ओषधि- विशेषः । थुल्कुडी इति भाषा । तत्पर्य्यायः । भेकी २ मण्डूकी ३ मूलपर्णी ४ । इति रत्न- माला ॥ मण्डूकपर्णिका ५ । अस्या गुणाः । मण्डूकपर्णिका लघ्वी स्वादुपाका रसा हिमा । (महौषध्यर्थे पर्य्यायान्तरं यथा, -- “मण्डूकपर्णी माण्डूकी त्वाष्ट्री दिव्या महौषधी ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ तथाचास्या गुणाः ॥ कषाया तु हिता पित्ते स्वादुपाकरसा हिमा । लम्बी मण्डूकपर्णी तु तद्वद्गोजिह्विका मता ॥ इति सुश्रुते सूत्रस्थाने ४६ अध्याये ।) पाठान्तरम् । मण्डूकपर्णिका लघ्वी रूक्षा वातविबन्धनुत् । इति राजवल्लभः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मण्डूकपर्णी स्त्री।
मञ्जिष्टा
समानार्थक:मञ्जिष्टा,विकसा,जिङ्गी,समङ्गा,कालमेषिका,मण्डूकपर्णी,भण्डीरी,भण्डी,योजनवल्ली
2।4।91।1।1
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि। यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मण्डूकपर्णी/ मण्डूक--पर्णी f. N. of various plants (Rubia Munjista , Clerodendrum Siphonantus etc. ) Bhpr. L.