सामग्री पर जाएँ

मण्डूर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मण्डूरम्, क्ली, पुं, लौहमलम् । ततपर्य्यायः । शिङ्घाणम् २ । इत्यमरः । २ । ९ । ९८ ॥ सिंहानं ३ । सिंहाणं ४ । मण्डते लोहं वेष्टते अग्निदाहे लोहाद्विभजते वा मण्डयति भूष- यति औषधत्वाद्रोगिणमिति वा मण्डूरं कि मडि भूषे मडि ङ विभागे वेष्टे नाम्नीति ऊरः । इति तट्टीकायां भरतः ॥ अस्य गुणः । लौहगुणतुल्यः । शतवर्षोर्द्ध्वं मण्डूरमुत्तमम् । अशीतिवर्षीयं मध्यमम् । षष्टिवर्षीयमधमम् । अतो न्यूनं विषतुल्यम् । यथा, -- “यल्लोहं यद्गुणं प्रोक्तं तत्किट्टञ्चापि तद्गुणम् । शतोर्द्धमुत्तमं किट्टं मध्यञ्चाशीतिवार्षिकम् ॥ अधभं षष्टिवर्षीयं ततो हीनं विषोपमम् ॥” इति रसेन्द्रचिन्तामणिः ॥ (तथा चास्य पर्य्यायान्तरम् । मण्डूरं लोहजं किट्टम् । इति वैद्यकरत्नमालायाम् ॥ अस्य उत्पतिर्गणाश्च यथा, -- “ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते । लोहसिंहानिका किट्टी सिंहाणञ्च निगद्यते ॥ यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके । तस्मात् सर्व्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत् ॥” अथास्य मारणविधिर्यथा, -- “दग्ध्राक्षकाष्ठैर्मलमायसन्तु गोमूत्रनिर्व्वापितमष्टवारान् । विचूर्ण्य लीढं मधुनाचिरेण कुम्भाह्वयं पाण्डुगदं निहन्ति ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा- धिकारे ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मण्डूर नपुं।

लोहमलम्

समानार्थक:मण्डूर,सिंहाण

2।9।98।2।2

लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी। अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मण्डूर¦ न॰ मडि--ऊरच्। लौहमले अमरः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मण्डूर¦ mn. (-रः-रं) Rust of iron used as a medicine. E. मडि to adorn, ऊरच् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मण्डूरम् [maṇḍūram], Rust of iron, dross (used as a tonic).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मण्डूर n. rust of iron L.

"https://sa.wiktionary.org/w/index.php?title=मण्डूर&oldid=316113" इत्यस्माद् प्रतिप्राप्तम्