मतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मतः, त्रि, (मन् + कर्म्मणि क्तः ।) सम्मतः । ज्ञातः । इति मेदिनी । ते, ४२ ॥ (यथा, रघौ । २ । ५७ । “किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ॥”) अर्च्चितः । इति हेमचन्द्रः ॥
