सामग्री पर जाएँ

मत्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मत्तः, पुं, (माद्यतीति । मद् + कर्त्तरि क्तः ।) क्षरन्मदहस्ती । मातओयाला हाती इति भाषा ॥ तत्पर्य्यायः । प्रभिन्नः २ गर्ज्जितः ३ । इत्यमरः । २ । ८ । ३६ ॥ मतङ्गः ४ क्षरन्मदः ५ । इति शब्दरत्नावली ॥ धुस्तूरः । कोकिलः । महिषः । इति राजनिर्घण्टः ॥

मत्तः, त्रि, मत्तताविशिष्टः । सुरापाने विक- लान्तःकरणः । तत्पर्य्यायः । शौण्डः २ उत्- कटः ३ क्षीवः ४ । इत्यमरः । ३ । १ । २३ ॥ मदोद्धतः ५ । इति जटाधरः ॥ (यथा, देवी- भागवते । २ । ८ । ४ । “ते पीत्वा मदिरां मत्ताः कृत्वा युद्धं पर- स्परम् ।” यथाच माधवकृतरुग्विनिश्चये मदात्ययाद्यधिकारे । “मध्येन मत्तः पुरुषो मदेन ।”) हृष्टः । मदीभिर्य्यञि हर्षे क्तः । इत्यमर- भरतौ ॥ अविवेकी । (यथा रामायणे । १ । ४४ । १० । “बलान्मत्तो महाबलः ।” “मत्तोऽविवेकी ।” इति तट्टीकाकृद्रामानुजः ॥)

"https://sa.wiktionary.org/w/index.php?title=मत्तः&oldid=155581" इत्यस्माद् प्रतिप्राप्तम्