मत्सरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मत्सरः, पुं, (मद्यते इति मद् + “कृधूमदिभ्यः कित् ।” उणा० । ३ । ७३ । इति सरन् । स च कित् । यद्बा । मदा सरतीति अमर- टीका ।) अन्यशुभद्वेषः । इत्यमरः । ३ । ३ । १७२ ॥ (यथा, कथासरित्सागरे । ४२ । ६५ । “शीर्षान्ताद्भक्षयामास द्बितीयमपि तत्फलम् । निसर्गसिद्धो नारीणां सपत्नीषु हि मत्सरः ॥”) क्रोधः । इति मेदिनी । रे, १९३ ॥
मत्सरः, त्रि, (माद्यतीति । मद् हर्षे + “कृधू- मदिभ्यः कित् ।” उणा० । ३ । ७३ । इति सरन् । स च कित् ।) असह्यपरसम्पत्तिः । मात्सर्य्ययुक्तः । (यथा, महानिर्व्वाणतन्त्रे । १ । २६ । “न मत्सरा नातिरुष्टा नातिलुब्धा न कामुकाः ।”) कृपणः । इत्यमरमेदिनीकरौ ॥ आत्मधिक्कार- व्रिशेषः । यथा, -- “निन्दन्ति मां सदा लोका धिगस्तु मम जीव- नम् । इत्यात्मनि भवेद्यस्तु धिक्कारः स च मत्सरः ॥” इति पाद्मे क्रियायोगसागरे १६ अध्यायः ॥
