सामग्री पर जाएँ

मत्स्याक्षी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मत्स्याक्षी, स्त्री, (मत्स्यानां अक्षीणीव अक्षीणि पुष्परूपाणि चक्षूषि यस्याः । मत्स्याक्षि + “बहुब्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ।” ५ । ४ । ७३ । इति षच् ङीष् च ।) ब्राह्मी । इत्य- मरः । २ । ४ । १३७ ॥ सा च सोमलतायाम् । ब्राह्मीशाके इति केचित् । इति भरतः ॥ यथा, “ब्राह्मी वयस्था मत्स्याक्षी मीनाक्षी सोम- वल्लरी । मत्स्याक्षी शिशिरा रुच्या ब्रणदोषक्षयापहा ॥” इति राजनिर्घण्टः ॥ गण्डदूर्व्वा । इति राजनिर्घण्टः ॥ हिलमोचिका । ब्राह्मीशाकः । इति रत्नमाला ॥ (गण्डदूर्ब्बार्थे पर्य्या यो यथा, -- “गण्डद्रूर्व्वा तु गण्डाली मत्स्याक्षी शकुला- क्षकः ॥” मत्स्यादनी ॥ तत्पर्य्यायो गुणाश्च यथा । मछेछी छछमछरी आइतिच । इति लोके । “मत्स्याक्षी वाह्लिका मत्स्यगन्धा मत्स्याद- नीति च । मत्स्याक्षी ग्राहिणी शीता कुष्ठपित्तकफास्र- जित् ॥ लघुस्तिक्ता कषाया च स्वाद्वी कटुविपाकिनी ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मत्स्याक्षी स्त्री।

ब्रम्ही

समानार्थक:ब्रम्ही,मत्स्याक्षी,वयःस्था,सोमवल्लरी

2।4।137।2।3

स्याद्दक्षगन्धा छगलान्त्र्यावेगी वृद्धदारकः। जुङ्गो ब्रम्ही तु मत्स्याक्षी वयस्था सोमवल्लरी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मत्स्याक्षी¦ स्त्री मत्स्यस्याक्षीवाकारोऽस्याः षच्समा॰ ङीष्।

१ गण्डदूर्वायां राजनि॰

२ सोमलतायाम्

३ हिलमोचि-कायाम्

४ ब्राह्मीशाके रत्नमाला।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मत्स्याक्षी/ मत्स्या f. =prec. m. L.

मत्स्याक्षी/ मत्स्या f. Hincha Repens L.

मत्स्याक्षी/ मत्स्या f. Solanum Indicum L.

मत्स्याक्षी/ मत्स्या f. a kind of grass(= गण्ड-दूर्वा) L.

"https://sa.wiktionary.org/w/index.php?title=मत्स्याक्षी&oldid=317259" इत्यस्माद् प्रतिप्राप्तम्