मत्स्योदरी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मत्स्योदरी, स्त्री, (मत्स्यस्य उदरं उत्पत्तिस्थानं यस्याः । मत्स्यगर्भे जातत्वादस्यास्तथात्वम् ।) सत्यवती सा च व्यासमाता । इति जटाधरः ॥ (यथा देवीभागवते । २ । १ । ३८ । “कालिका वसुना दत्ता तरसा जालजीविने । नाम्ना कालीति विख्याता तथा मत्स्यो- दरीति च ॥”) (मत्स्या उदरे गर्भे यस्याः ।) काशीस्थतीर्थ- विशेषः ॥ यथा, -- “कैलासाद्रेः समायाताः सप्तकोटिमिताः प्रभो ! । दुर्गाणि तैः कृतानीह सप्तस्वर्गसमानि च ॥ सद्वाराणि सयन्त्राणि कवाटविकटानि च । कोटिकोटिभटान्यानि सर्व्वर्द्धिसहितान्यपि ॥ ततः शैलं महादुर्गं तैः काशीपरितः कृतम् । परिखा निकृतालिन्दा मत्स्योदर्य्या जलाविला ॥ मत्स्योदरी द्विधा जाता बहिरन्तश्चरा पुनः । तस्य तीर्थं महत् ख्यातं मिलितं गाङ्गवारिणि ॥ यदा संहारमार्गेण गङ्गाम्भः प्रसरेदिह तदा मत्स्योदरीतीर्थं लभ्यते पुण्यगौरवात् ॥ सूर्य्याचन्द्रमसोः पर्व्व तदा कोटिगुणं शतम् । सर्व्वपर्व्वाणि तत्रैव सर्व्वतीर्थानि तत्र वै । तत्रैव सर्व्वलिङ्गानि गङ्गा मत्स्योदरी यतः ॥ मत्स्योदर्य्याञ्च ये स्नाता यत्र कुत्रापि मानवाः । कृतपिण्डप्रदानास्ते न मातुरुदरेशयाः ॥ अविमुक्तमिदं क्षेत्रं मत्स्याकारत्वमाप्नुयात् । परितः स्वर्धुनीवारि संसारे परिवीक्षते ॥ मत्स्योदर्य्यां कृतस्नाना ये नरास्ते नरोत्तमाः । कृत्वापि बहुपापानि नेक्षन्ते भास्करेः पुरीम् ॥ किं स्नात्वा बहुतीर्थेषु किं तप्त्वा दुष्करं तपः । यदि मत्स्योदरीं स्नाताः कुतो गर्भभयं ततः ॥ यत्र यत्र हि लिङ्गानि नृदेवर्षिकृतान्यपि । तत्र मत्स्योदरीं प्राप्य सुस्नातो मोक्षभाजनम् ॥ सन्ति तीर्थान्यनेकानि भूर्भूवःस्वर्गतान्यपि । न समानि परं तानि कोट्यंशेनापि निश्चितम् ॥ इत्थं तीर्थं कृतं तेन विभो ! कैलासवासिना । गणाधिपेन सुमहत् सुमहोदरकर्म्मणा ॥” इति काशीखण्डे ६९ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मत्स्योदरी¦ स्त्री मत्स्यगन्धयुक्तमुदरमस्याः।
१ व्यासमातरिमत्स्यगन्धायां
२ काशीस्थे तीर्थभेदे च काशी॰
६९ अ॰
“दुर्गाणि तैः कृतानीह सप्त स्वर्गसमानि च। सद्वाराणिसयन्त्राणि कवाटविकटानि च। कोटिकोटिभटा-द्यानि सर्वर्द्धिसहितान्यपि। ततः शैलमहादुर्गंतैः काशीं परितः कृतम्। परिखा च कृतालिन्दामत्स्योदर्य्या जलाबिला। मत्स्योदरी द्विधा जातावहिरन्तश्चरा पुनः। तस्य तीर्थं महत् ख्यातं मिलितंगाङ्गवारिणि। यदा संहारमार्गेण गङ्गाम्भः प्रसरे-दिह। तदा मत्स्वोदरीतीर्थं लभ्यते पुण्यगौरवात्। सूर्य्याचन्द्रमसोः पर्व तदा कोटिगुणं शतम्। सर्वपर्वाणितत्रैव सर्वतीर्थानि तत्र वै। तत्रैव सर्वलिङ्गानि गङ्गा-मत्स्योदरी यतः। मत्स्योदर्य्याञ्च ये स्नाता यत्र कुत्रापिमानवाः। कृतपिण्डप्रदानास्ते न मातुरुदरेशयाः। अविमुक्तमिदं क्षेत्रं मत्स्याकारत्वमाप्नुयात्। परितःस्वर्धुनीवारिसंहारे परितोवृते। मत्स्योदर्य्यां कृत-स्नाना ये नरास्ते नरोत्तमाः। कृत्वापि बहुपापानिनेक्षन्ते भास्करेः पुरीम्। किं स्नात्वा बहुतीर्थेषु किंतखा दुष्करं तपः। यदि मत्स्योदरीस्नाताः कुतोगर्भभयं ततः। यत्र यत्र हि लिङ्गानि नृदेवर्षि-कृतान्यपि। तत्र मत्स्योदरीं प्राप्य सुस्नातो मोक्ष-भाजनम्। सन्ति तीर्थान्यनेकानि भूर्भुवःस्वर्गतान्यपि। न समानि परं तानि कोट्यंशेनापि निश्चितम्। इत्थंतीर्थं कृतं तेन विभो! कैलासवासिना। सणाधिपेनसुमहत् सुमहोदारकर्मणा। ”
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मत्स्योदरी¦ f. (-री)
1. A name of SATYAVATI4, the mother of VYA4SA.
2. A place of pilgrimage, a particular pool at Benares held in re- verence by pilgrims to that sacred city. E. मत्स्य a fish, and उदर the belly; the mother of VYA4SA was found in the belly of a fish, and retaining a fishy-odour, was thence also called MATSYAGAN- DHA4, till the scent was changed to that of a lotus by her para- mour the Muni PARA4SARA, the father of VYA4SA.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मत्स्योदरी/ मत्स्यो f. " sprung from a fish-belly " , N. of सत्य-वतीL. (See. under मत्स्यabove )
मत्स्योदरी/ मत्स्यो f. N. of a sacred bathing-place in Benares Cat.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
MATSYODARĪ : Another name for Satyavatī, mother of Vyāsa. (See under Satyavatī).
_______________________________
*5th word in left half of page 494 (+offset) in original book.
