मदकलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मदकलः, पुं, (मदेन कलोऽव्यक्तमधुरध्वनिर्यस्य ।) मत्तहस्ती । तत्पर्य्यायः । मदोत्कटः २ । इत्य- मरः । २ । ८ । ३५ ॥ अव्यक्तप्रलापी । इति शब्दरत्नावली ॥ मदाव्यक्तवात्तिनि त्रि । इति मेदिनी । ले, १५९ ॥ (यथा, उत्तरचरिते २ अङ्के । “मदकलमयूरकण्ठच्छविभिरवकीर्णानि ।”)
