मदनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मदनः, पुं, (मदयतीति । मद् + णिच् ल्युः ।) कामदेवः । इत्यमरः । १ । १ । २६ ॥ तस्य नाम्नां व्युत्पत्तिर्यथा । ऋषय ऊचुः । “यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः । तस्मान्मन्मथनाम्ना त्वं लोके गेयो भविष्यसि ॥ जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते । अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव ! ॥ मदनान्मदनाख्यस्त्वं शम्भोर्दर्पात् सदर्पकः । तथा कन्दर्पनाम्नापि लोके ख्यातो भविष्यसि ॥” इति कालिकापुराणे २ अध्यायः ॥ ब्रह्मणस्तस्योत्पत्तिर्यथा, -- “प्रहृष्टमानसः पुत्त्रं कन्यैकाञ्च ससर्ज्ज ह । हृष्टस्य कामिनः पुत्त्रः कामदेवो बभूव ह ॥ कन्या षोडशवर्षीया रत्नभूषणभूषिता ॥ उवाच पुत्त्रं स विधिः सुदीप्तं पुरतः स्थितम् । दुर्न्निवार्य्यं मत्कलांशं स्वात्मारामं मनोहरम् ॥ ब्रह्मोवाच । स्त्रीपुंसोः क्रीडनार्थाय मुदा त्वञ्च विनिर्म्मितः । हृदि योगेन सर्व्वेषामधिष्ठानं करिष्यसि ॥ सम्मोहनं समुद्वेगबीजं स्तम्भितकारणम् । उन्मत्तबीजं ज्वलनं शश्वच्चेतनहारकम् ॥ प्रगृह्यैतान्मया दत्तान् सर्व्वान् सम्मोहनं कुरु । दुर्निवार्य्यो मम वराद्भव वत्स ! भवेषु च ॥ बाणान्दत्त्वैवमुक्त्वा च प्रहृष्टश्च जगद्बिधिः । दृष्ट्वा वाचं दुहितरं वरं दातुं समुद्यतः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३५ अध्यायः ॥ (योगाचार्य्यरूपः शिवस्यावतारविशेषः । यथा, शिवपुराणे वायुसंहितायाम् । २ । १० । १ -- २ । श्रीकृष्ण उवाच । “युगावर्त्तेषु सर्वेषु योगाचार्य्यछलेन तु । अवताराणि सर्वस्य शिष्यांश्च भगवन् ! वद ॥” उपमन्युरुवाच । “श्वेतः सुतारो मदनः सुहोत्रः कंक एव च ॥” महादेवः । मदयति भक्तानां मनः इति मद + ल्युः । मनसि आनन्दजनकत्वादस्य तथा- त्वम् । यथा, महाभारते । १३ । १७ । ६९ । “उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥” मत्तता । वरारोहाणां कामिनीनां भावविशेषः इति यावत् । यथा, महाभारते । ३ । ४६ । १३ । “सीधुपानेन चाल्पेन तुष्टाथ मदनेन च । विलासनैश्च विविधैः प्रेक्षणीयतराभवत् ॥”) वसन्तः । धुस्तूरः । सिक्थकम् । इति मेदिनी । मे । १०३ ॥ वृक्षभेदः । मयना इति भाषा । तत्पर्य्यायः । पिचुकः २ मुचुकुन्दः ३ कण्टकी ४ । इति रत्नमाला ॥ पिण्डीतकः ५ । (तथाचास्य पर्य्यायान्तरं गुणाश्च । “मदनः छर्द्दनः पिण्डो नटः पिण्डीतकस्तथा । करहाटी मरुवकः शल्यको विषपुष्पकः ॥ मदनो मधुरस्तिक्तो वीर्य्योष्णो लेखनो लघुः । वान्तिकृद्विद्रधिहरः प्रतिश्यायव्रणान्तकः ॥ रूक्षः कुष्ठकफानाहशोथगुल्मव्रणापहः ॥” धुस्तूरार्थे पर्य्यायो यथा, -- “धत्तूरधूर्त्तधुत्तूरा उन्मत्तः कनकाह्वयः । देवता कितवस्तूरी महामोहः शिवप्रियः ॥ मातुलो मदनश्चास्य फले मातुलपुत्त्रकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) मरुवकः ६ श्वसनः ७ करहाटकः ८ शल्यः ९ । इत्यमरः । २ । ४ । ५२ -- ५३ ॥ भ्रमरः । इति जटाधरः ॥ माषः । इति हेमचन्द्रः ॥ खदिरवृक्षः । इति शब्दचन्द्रिका ॥ मङ्कोठ- वृक्षः । वकुलवृक्षः । वृक्षविशेषः । मयना- फल इति भाषा । तत्पर्य्यायः । शल्यः २ कैटर्य्यः ३ पिण्डः ४ धाराफलः ५ तगरः ६ करहाटः ७ पिण्डीतकः ८ श्वसनः ९ मरु- वकः १० । अस्य गुणाः । वमिकारकत्वम् । तिक्तत्वम् । उष्णवीर्य्यत्वम् । लेखनत्वम् । लघुत्वम् । रूक्षत्वम् । कुष्ठकफानाहशोफगुल्मब्रणापहत्वञ्च । इति राजनिर्घण्टः ॥ आलिङ्गनविशेषः । तल्ल- क्षणम् । नायको नायिकायाः कण्ठे हस्तं दत्त्वा द्वितीयहस्तं तस्या मध्यदेशे दत्त्वा यदाश्लिषति । इति कामशास्त्रम् ॥ (“अथ मयनम् ।” मम् इति भाषा । “मयनन्तु मधूच्छिष्टं मधुशेषञ्च सिक्थकम् । मध्वाधारो मदनकं मधूषितमपि स्मृतम् ॥ मदनं मृदुसुस्निग्धं भूतघ्नं ब्रणरोपणम् । भग्नतन्धानकृद्वातकुष्ठवीसर्परक्तजित् ॥” इति च भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥ मण्डलिसर्पान्तर्गतसर्पविशेषः ॥ “शिशुको मदनः पालिंहिरः इत्यादि ।” इति मुश्रुते कल्पस्थाने चतुर्थेऽध्याये ॥)
