सामग्री पर जाएँ

मदनचतुर्द्दशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मदनचतुर्द्दशी, स्त्री, (मदनोत्सवात्मिका चतुर्द्दशी ।) चैत्रशुक्लचतुर्द्दशी । यथा । अथ मदनचतुर्द्दशी तत्र मदनस्य पूजा कार्य्या । स्कन्दपुराणसौरा- गमयोः । “मधुमासे तु संप्राप्ते शुक्लपक्षे चतुर्द्दशी । प्रोक्ता मदनभुञ्जीति सिद्धिदा तु महोत्सवे ॥ पूजयिष्यन्ति ये मर्त्यास्तदङ्गभवपल्लवैः । ते यान्ति परमं स्थानं मदनस्य प्रभावतः ॥ चैत्रे मासि चतुर्द्दश्यां मदनस्य महोत्सवः । जुगुप्सितोक्तिभिस्तत्र गीतवाद्यादिभिर्नृणाम् । भगवांस्तुष्यते कामः पुत्त्रपौत्त्रसमृद्धिदः ॥ वलिं प्रति भगवद्वाक्यम् । न मानयन्ति ये पर्व्व मादनं मानवाधमाः । तेषां पुण्यं फलं दत्तं मया ते चैत्रमासिकम् ॥ देवलः । चैत्रशुक्लचतुर्द्दश्यां यः स्नायाच्छिवसन्निधौ । पिशाचत्वं न तस्य स्यात् गङ्गायाञ्च विशेषतः ॥” इति तिथितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=मदनचतुर्द्दशी&oldid=155672" इत्यस्माद् प्रतिप्राप्तम्