सामग्री पर जाएँ

मदनत्रयोदशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मदनत्रयोदशी, स्त्री, (मदनपूजार्था त्रयोदशी ।) चैत्रशुक्लत्रयोदशी । तत्र मदनस्य व्रतं कर्त्तव्यम् । यथा भविष्ये । “चैत्रशुक्लत्रयोदश्यां मदनं दमनात्मकम् । कृत्वा संपूज्य विधिवद्बीजयेद्ब्यजनेन तु ॥ तत्र सन्धुक्षितः कामः पुत्त्रपौत्त्रविवर्द्धनः । कामदेवस्त्रयोदश्यां पूजनीयो यथाविधि । रतिप्रीतिसमायुक्तो ह्यशोकमणिभूषितः ॥” दमनो दमनकवृक्षः । सन्धुक्षितः प्रीणितः । कामदेवध्यानन्तु । “चापेषुधृक् कामदेवो रूपवान् विश्वमोहनः ।” तत्र स्तुतिमन्त्रः । “पुष्पधन्वन् ! नमस्तेऽस्तु नमस्ते मीनकेतन ! । मुनीनां लोकपालानां धैर्य्यच्युतिकृते नमः ॥ माधवात्मज ! कन्दर्प ! सम्बरारे ! रति- प्रिय ! । नमस्तुभ्यं जिताशेषभुवनाय मनोभुवे ॥ आधयो मम नश्यन्तु व्याधयश्च शरीरजाः । सम्पद्यतामभीष्टं मे सम्पदः सन्तु मे स्थिराः ॥ नमो माराय कामाय देवदेवस्य मूर्त्तये । ब्रह्मविष्णुशिवेन्द्राणां मनःक्षोभकराय च ॥ एवं यः कुरुते पूजामनङ्गस्य महात्मनः । भवन्ति नापदस्तस्य तस्मिन्नब्दे कदाचन ॥” इति तिथितत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मदनत्रयोदशी¦ स्त्री मदनपूजार्था त्रयोदशी। चैत्रशुक्ल-त्रयोदश्याम् ति॰ त॰ दृश्यम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मदनत्रयोदशी/ मदन--त्रयोदशी f. N. of a festival in honour of काम-देवon the 13th day in the light half of the month चैत्रL.

"https://sa.wiktionary.org/w/index.php?title=मदनत्रयोदशी&oldid=317803" इत्यस्माद् प्रतिप्राप्तम्