सामग्री पर जाएँ

मदात्यय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मदात्ययः, पुं, (मदेन अत्ययो नाशोन्मुखतात्र ।) मद्यपानादिजन्यरोगविशेषः । तत्पर्य्यायः । मदातङ्कः २ पानात्ययः ३ मदव्याधिः ४ मदः ५ । इति राजनिर्घण्टः ॥ अथ मदात्ययादीनां निदानान्याह । “विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपनाः । त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः ॥ तस्मादविधिपीतेन तथा मात्राधिकेन च । युक्तेन चाहितैरन्नैरकाले सेवितेन च ॥ मद्येन खलु जायन्ते मदात्ययमुखा गदाः ॥” अविधिप्रयुक्तं मद्यं विकारान्तरमप्युत्पादयती- त्याह । “निभक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम् । उत्पादयेत् कष्टतमान् विकारा- नुत्पादयेच्चापि शरीरभेदम् ॥” एकान्ततो नैरन्तर्य्येण विकारान् मदात्ययादीन् । शरीरस्य भेदं नाशम् ॥ * ॥ मदात्ययादीनां हेत्वन्तरमप्याह । पथ्या क्वाथेन संयुक्तं पयःपानं मदात्यये ।” इति मदात्ययचिकित्सा ॥ अथ पूगीपलमदात्ययचिकित्सारभ्यते । “पूगीफलमदे कम्पो मोहो मूर्च्छा क्लमस्तमः । प्रस्वेदो विधुरत्वञ्च लालास्रावश्च जायते ॥ भ्रमक्लमपरीतत्वं विज्ञेयं पूगमूर्च्छिते । मानवो लक्षणैरेभिर्ज्ञेयः पूगविमूर्च्छितः ॥ तस्य शीतं जलं पीतं वस्तिवातहितं भवेत् । शर्कराभक्षणे देया मुस्ता वा शर्करान्विता ॥ कोद्रवाणां भवेन्मूर्च्छा देयं क्षीरं सुशीतलम् । धुस्तूरकमदे देयं शर्करासहितं दधि ॥ फलिनी करवीरञ्च मोहिनी मदयन्तिका । अन्येषामपि कन्दानां वमनञ्चाशु कारयेत् ॥ पाययेत् शर्करायुक्तं क्षीरं वा दधि शर्कराम् ।” इति श्रीमहर्ष्यात्रेयभाषिते हारीतोत्तरे तृतीय- स्थाने मदात्ययचिकित्सानाम सप्तदशोऽध्यायः ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मदात्यय¦ पु॰

६ त॰। मदनिमित्ते रोगभेदे तस्य निदानादिगरु॰ पु॰

१६

० अ॰ उक्तं दृश्यम्। भावप्र॰ उक्तन्तु यथा
“विषस्य ये गुणा दृष्ठाः सन्निपातप्रकोपनाः। तएवमद्ये दृश्यन्ते विषे तु बलवत्तराः। तस्मादविधिपीतेनतथा मात्राधिकेन ञ्च। युक्तेन चाहितैरन्नैरकाले सेवि-तेन च। मद्येन खलु जायन्ते मदात्ययमुखा गदाः”। अविधिप्रयुक्तं मद्यं विकारान्तरमप्युत्पादयतीत्याह।
“निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्। उत्पादयेत् कष्टतमान् विकारानुत्पादयेच्चापि शरीर-भेदम्”। एकान्ततो नैरन्तर्य्येण, विकारान् मदात्यया-दीन्। शरीरस्य भेदं नाशम्। मदात्ययादीनां हेत्व-न्तरमप्याह
“क्रुद्धेन भीतेन पिपासितेन शोकाभि-तप्तेन बुभुक्षितेन। व्यायामभाराध्वपरिक्षतेव वेगाव-रोधाभिहतेन वापि। अत्यम्लरूक्षावततोदरेण सा-[Page4727-a+ 38] जीर्णभुक्तेन तथाऽबलेन। उष्णाभिवप्तेन च सेव्यमानंकरोति मद्यं विविधान् विकारान्”। तानेव विका-रान् विवृणोति।
“पानात्ययं परमदं पानाजीर्णमथापिवा”। पानविकारान् विवृणोति।
“पानविश्रममुग्रञ्चतेषां वक्ष्यामि लक्षणम्। तत्र मदात्ययस्य सामान्य-लक्षणमाह
“शरीरदुःखं बलवत्प्रमोहो हृदय-व्यथा। अरुचिः प्रततं तृष्णा ज्वरः शीतोष्णलक्षणः। शिरः पार्श्वास्थिसन्धीनां वेदना विक्षते तथा। जायतेऽतिबलात् जृम्भास्फुरणं वेपनं श्रमः। उरोविबन्धःकासश्च श्वासो हिक्काप्रजागरः। शरीरकम्पः कर्णाक्षिमुखरोगास्त्रिकग्रहः। छर्दिर्विड्भेदौत्क्लेशो वात-पित्तकफात्मकः। भ्रमः प्रलापी रूपाणामसताञ्चैवदर्शनम्। तृणभस्मलतापर्णपांशुभिश्चावपूरितम्। प्रक-र्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते। व्याकु-लानामशस्तानां स्वप्नानां दर्शनानि च। मदात्ययस्यरूपाणि सर्वाण्येतानि लक्षयेत्”। अथ मदात्ययस्यवातिकस्य निदानमाह
“स्त्रीशोकभयभाराध्वकर्म-भिर्योऽतिकर्षितः। रूक्षाल्पप्रमिताशी च यः पिव-त्यतिमात्रया। रूक्षं परिणतं मद्यं निशि निद्रांनिहन्ति च। करोति तस्य तच्छीघ्रं वातप्रायं मदा-त्ययम्”। तत् मद्यम्। अथ तस्य लक्षणमाह।
“हिक्काश्वाससिराकम्पपार्श्वशूलप्रजागरैः। विद्याद्-बहुपलापञ्च वातप्रायं मदात्ययम्”। अथ पैत्तिकस्यनिदानमाह
“तीक्ष्णोष्णं मदामम्लञ्च योऽतिमात्रंनिषेवते। अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातप-प्रियः। तस्योपजायते तीव्रः पित्तप्रायो मदात्ययः”। अथ तस्य लक्षणमाह
“तृष्णादाहज्वरस्वेदमोहा-तीपारविभ्रमैः। विद्याद्वरितवर्णस्य पित्तप्रायं मदा-त्ययम्”। अथ श्लैष्मिकस्य मदात्ययस्य निदानमाह
“मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया। अव्यायाम-दिवास्वप्नशय्यासनसुखे रतः। मदात्ययं कफवायं सनरो लभते ध्रुवम्”। अथ तस्य लक्षणमाह
“छर्द्य-रोचकहृल्लासतन्द्रास्तैमित्यगौरवैः। विद्याच्छीतपरी-तस्य कफप्रायं मदात्ययम्”। अथ सान्निपातिकस्य मदा-त्ययस्य निदानं लक्षणञ्चाह
“त्रिदोषहेतुभिः सर्वैः सर्वै-र्लिङ्गैर्मदात्ययः”। अथ परमदलक्षणमाह
“श्लेष्मोच्छ्र-योऽङ्गगुरुता विरसास्यता च विण्मूत्रभक्तिरथ तन्त्रिररोचकश्च। लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञा[Page4727-b+ 38] स्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः”। तन्द्रि-स्तन्द्रा। पानाजीर्णमाह
“आष्मानमुग्रमथ बोद्गिरणंविदाहः पाने त्वजीर्णमुपगच्छति लक्षणानि”। उद्गि-रणं वान्तिः उद्गारो वा। पीयत इति पानं मद्यम्। पानविभ्रममाह
“हृद्गात्रतोदकफसंस्रवकण्ठधूम-मूर्च्छावमीज्वरशिरोरुजनप्रदेहाः। द्वेषः सुरान्नविकृ-तेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेषु धीराः। कण्ठधूमः निर्गम इव। प्रदेहः कफेन लिप्तास्यता। द्वेषः सुरान्नविकृतेषु सुराविकारेषु अन्नविकारेषु चद्वेषः। असाध्यानां मदात्ययादीनां लक्षणमाह। दीनोत्तरोष्ठमतिशीतममन्ददाहम् तैलप्रभास्यमतिपान-हतं त्यजेच्च। जिह्वोष्ठदन्तभसितं त्वथ वापि नीलम्पीते च यस्य नयने रुधिरप्रभे च। हिक्काज्वरो वमथु-वेपथुषार्श्वशूलाः कासभ्रमावपि च पानहत त्यजेत्तम्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मदात्यय¦ m. (-यः) Disorder induced by drunkenness; headache, sick- ness, loss of appetite, &c. E. मद drunkenness, अत्यय consequence.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मदात्यय/ मदा m. " passing off of wine " , disorder resulting from intoxication (as head-ache etc. ) Sus3r. (See. पाना-त्यय)

"https://sa.wiktionary.org/w/index.php?title=मदात्यय&oldid=318531" इत्यस्माद् प्रतिप्राप्तम्